भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 414, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 414

अष्टात्रिंशः पटलः । ३३३ मोहयित्वाहमीशानं सतीरूपेण शंकरम् । संहरिष्यामि लोकेश जगदेतच्चराचरम् ॥ २७ ॥ तत्रापि तां तनुं त्यक्त्वा संभविष्यामि पार्वती । इति तस्मै समाभाष्य ब्रह्मणे परमेश्वरी ॥ २८ ॥ वीक्ष्यमाणा जगत्स्रष्ट्रा तत्रैवान्तरधीयत । तस्यामन्तर्हितायां च ब्रह्मा लोकपितामहः ॥ २९ ॥ कृताञ्जलिपुटो भूत्वा विष्णुमाह प्रजापतिः । संहारकरणे योग्यं वीरभावं च यद्भवेत् ॥ ३० ॥ तन्निदेशय महादेवे विष्णो लोकेषु दुर्लभम् । इति तद्वचनं श्रुत्वा भगवान् हरिरीश्वरः ॥ ३१ ॥ आदिष्टवान् मयि भेद वीरभावं सुदुर्लभम् । वीरभावे स्थितः सोऽहं मातस्त्वां समुपास्महे ॥ ३२ ॥ अद्यापि परमेशानि मातस्तुभ्यं नमो नमः । प्रकृतिः सर्वभूतानां त्वं हि सर्वजगत्प्रसूः ॥ ३३ ॥ या (मुक्तिः ? मूर्तिः) मम देवेशि क्षितिरूपा तु गीयते । सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ३४ ॥ या मे मूर्तिर्द्वितीया च जलमयीति कथ्यते । सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ३५ ॥ आग्नेयी या तृतीया मे जगत्क्षोभणकारिणी । सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ३६ ॥ चतुर्थी वायवी मूर्तिः सृष्टिसंहारकारिणी । सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ३७ ॥ १ 'तिस्रव' क पाठ । २ 'तिस्रव' क पाठ ।