गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 401, कुल 446 में से
संदर्भ में पढ़ें३२० गन्धर्वतन्त्रे । सुनयनातिसूक्ष्मा च निराकारा निरालया । परानन्दमयी पूर्णा सा भवेत् सुन्दरी परा ॥ ५३ ॥ पार्थिवे पार्थिवानां च लयैः¹ कार्यः समाधिना । अप्सु चापां लयः कार्यः शून्ये शून्यस्य वै तथा ॥ ५४ ॥ लयो वायौ च वायूनां ध्वनौ ध्वनिं समर्पयेत् । ज्योतिषां च लयस्तत्र ब्रह्मरायेवं² मनोलयः ॥ ५५ ॥ मनः करोति पापानि मनः पापेषु लिप्यते । मनसि³ चोन्मनीभूते न धर्मो न च पातकम् ॥ ५६ ॥ एवं भावनया हृष्टः परमानन्दनिर्भरः । संसारसागरं धीरो गोष्पदीकुरुते शिवे ॥ ५७ ॥ भुक्तिमुक्ती⁴ करे तस्य मम तुल्यो भवेद्भुवि । पूजा ज्ञानमयी प्रोक्ता न तु होमस्तु तादृशः ॥ ५८ ॥ तद्रूपं विद्धि कुण्डस्य बिन्दुत्रिवलयात्मकम् । आनन्दमेखलारम्यं मात्रायोनिविभूषितम् ॥ ५९ ॥ तद्ब्रह्म परमं ध्यात्वा सर्वज्ञानविजृम्भिते । दीपितेऽग्नौ हुनेद्देवि प्रपञ्चहविरुत्तमम् ॥ ६० ॥ शब्दाख्या मातृका रूपमक्षरं⁵ तु विराजितम् । अक्षरं च हुतं चात्र निःशब्दं ब्रह्म जायते ॥ ६१ ॥ पुण्यपापे हविर्देवि कृत्याकृत्ये हविः शिवे । संकल्पश्च विकल्पश्च धर्माधर्मौ हविस्तथा ॥ ६२ ॥ धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा । सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् ॥ ६३ ॥ १ 'य कार्ये' क पाठ । २ 'पो' क पाठः । ३ 'स्युन्म' क पाठः । ४ 'यावि' ख पाठः । ५ 'म' क पाठ । ६ 'मौ' क पाठ ।