गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 400, कुल 446 में से
संदर्भ में पढ़ेंषट्त्रिंशः पटलः । ३१६ दया पुष्पं क्षमा पुष्पं पुष्पमिन्द्रियनिग्रहम् । अमोहं चाप्यमात्सर्यमविद्वेषं तथैव च ॥ ४२ ॥ अरागं च तथा सत्यं पुष्पाण्येवं विदुर्बुधाः । एतानि भावपुष्पाणि सदैव विनिवेदयेत् ॥ ४३ ॥ वायुं च धूपकं दद्यात्तेजो दीपं निवेदयेत् । सुराम्बुधिं तथा दद्याद्दद्याच्च मांसपर्वतम् ॥ ४४ ॥ सूर्यं च दर्पणं दद्याच्चन्द्रं च च्छत्रमुत्तमम् । आनन्दाभरणं दद्यादम्बरं चामरं तथा ॥ ४५ ॥ अनाहतध्वनिमयीं घण्टामेतां निवेदयेत् । ततश्च साधकश्रेष्ठः शृङ्गारादिरसोद्भवैः ॥ ४६ ॥ नृत्यगीतैश्च वाद्यैश्च तोषयेत्परमेश्वरीम् । ध्वनिना शब्दभेदेन तेजश्राकाशसंकुले ॥ ४७ ॥ सहस्रदलमध्ये तु चिन्तयेत्सुन्दरीं पराम् । भैरवानन्दलिङ्गं तु तन्मध्ये योनिसंयुतम् ॥ ४८ ॥ एकी (कार्य?भावं) तयोः कृत्वा अमृतं (श्रा?स्त्रा)वयेत्ततः । जिह्वया गलं संयोगात् पिबेत्तदमृतं तदा ॥ ४६ ॥ योगिभिः पीयते तत्तु न मद्यं गौडपैष्टिकम् । पृथिव्यन्तर्गता आपस्तदन्तः शून्यमद्रिजे ॥ ५० ॥ शून्यमध्ये वसेद्वायुर्वाय्वन्तर्ध्वनिरीश्वरि । तदन्तर्नाद एवासौ नादान्तर्बिन्दुरीश्वरः ॥ ५१ ॥ तन्मध्ये तु परं ज्योतिः शिखा सूक्ष्मा परात्परा । विद्यु(च्चान?द्योत)नसंकाशा सहस्रादित्यभास्वरा ॥ ५२ ॥ १ 'नाल' ग्व पाठ ।