गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 406, कुल 446 में से
संदर्भ में पढ़ेंसप्तत्रिंशः पटलः । ३२५ तथा कैरणकर्तृत्वं¹ सगुणायां प्रतिष्ठितम् । यदिदं पुरुषे देवि कर्तृत्वमुपलक्ष्यते ॥ ३० ॥ स्फटिके² निर्मले देवि (यवा? जपा) रागमिवानघे । अहमाकाशवत्सर्वं बहिरन्तर्गतोऽच्युतः ॥ ३१ ॥ सदा सर्वसमः शुद्धो निसङ्गो निर्मलोऽचलः । सत्यं ज्ञानमनन्तं यत्परब्रह्माहमेव तत् ॥ ३२ ॥ ब्रह्मण्यधाय चित्तं तु कुर्वन् कर्म न लिप्यते । उभाभ्यामपि शक्यं स्यात्तर्तुं भवपयोनिधिम् ॥ ३३ ॥ दक्षिणेनापि कौलेन दुःखेनापि सुखेन च । कुम्भसंस्तरगैस्तर्तुं पोतवर्येण वाम्बुधिम् ॥ ३४ ॥ तस्मा(दिमं न? दयं व)रः कौलो दक्षिणादपि सुव्रते । कुलज्ञानं विना देवि नैव मुक्तिः कदाचन ॥ ३५ ॥ माया बलवती ह्येषा शक्तिर्गुणमयी³ तु या । प्रकृतिर्गीयते सा तु सांख्ययोगविशारदैः ॥ ३६ ॥ विद्याविद्येति सा प्रोक्ता वेदतत्त्वार्थदर्शिभिः । महाविद्येति सा कैश्चिन्महामायेति चापरैः ॥ ३७ ॥ शक्तिः सा सर्वभूतानामिति कैश्चिदुपास्यते । ˙समुपासते⁴ सर्वे तां ब्रह्मविष्णुमहेश्वराः ॥ ३८ ॥ तस्या एव न मे भेदो विष्णोर्ब्रह्मण एव वा । योगभोगतपःक्लेशैरानम्रैरभिनन्दिता ॥ ३६ ॥ आराधिता सैव नृणां भोगस्वर्गापवर्गदा । परितोष्य विधानेन येन तेनैव साधकः ॥ ४० ॥
१ 'का' क पाठ । २ 'स्फा' क पाठ । ३ 'केर्गु' क पाठ । ४ 'सर्वे तां समुपासन्ति' क ख.पाठ ।