गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 407, कुल 446 में से
संदर्भ में पढ़ेंसंसारनिगडैर्बद्धः पुमान् विमुच्यते तया । तस्यास्तोषं विना देवि विमुक्तिर्नैव विद्यते ॥ ४१ ॥ तन्निगृहीतचित्तानां पुंसां पुरुषपूजिते । अतस्तां च प्रयत्नेन पुरुषा मुक्तिलिप्सवः ॥ ४२ ॥ समाश्रयन्ति योगाद्यैर्नित्यानन्दस्वरूपिणीम् । ब्रह्मा विष्णुस्तथा चाहमात्मवत्समुपास्महे ॥ ४३ ॥ तपःक्लेशैश्च तां देवि पशुभावे स्थितो विधिः । संतोष्य परया भक्त्या सावित्रीं वेदमातरम् ॥ ४४ ॥ इच्छाशक्तिं च वागीशीं लब्ध्वा सृष्टिमचीकरत् । तनयां जगृहे मोहाद्ब्रह्मा पशुरादरधीः ॥ ४५ ॥ तज्जुगुप्सितमन्याय्यमद्यापि न निवर्तते । परशक्तिं पशुस्तस्मान्मनसापि न संस्मरेत् ॥ ४६ ॥ तद्भावमाश्रिता विप्रास्तामेव समुपासते । मित्राणां सर्वभूतानां तेषां मद्यं घृतं पयः ॥ ४७ ॥ अपूपं पिष्टकं मांसं गृह्णीयुः शक्तिदापितम् । अपिवा संविदासक्ता भवेयुः शक्तिमाश्रिताः ॥ ४८ ॥ दिव्यभावस्थितो विष्णुर्जगत्पालन्यरूपिणीम् । मधुमैरेयभोगाद्यैः संतोष्यानन्दरूपिणीम् ॥ ४९ ॥ ज्ञानशक्तिमयीं लक्ष्मीं जगदाधाररूपिणीम् । लब्ध्वा तु जगतः सोऽयं पालकोऽभून्निराकुलः ॥ ५० ॥ तद्भावमाश्रिता भूपास्तथैव तामुपासते । अथ देवाश्च दैत्याश्च मुनयो मानुषाः परे ॥ ५१ ॥