गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 408, कुल 446 में से
संदर्भ में पढ़ेंसप्तत्रिंशः पटलः । ३२७ विष्णुमेव हि सततं भजन्ते भावसिद्धये । स च भावविशुद्धात्मा तद्भावं तु जुगोप ह ॥ ५२ ॥ ये (नि?न)न्दन्ति च तद्भावं गोपयन्ति च सर्वदा । ते वै प्रियतमाः सर्वे शङ्खचक्रगदाभृतः ॥ ५३ ॥ तद्भावाद्दिमुखान् कर्तुं लोकांल्लोकेश्वरो हरिः । इदमादिष्टवान् देवि मामेव जगदीश्वरः ॥ ५४ ॥ भगवानुवाच सर्वे दिव्या भविष्यन्ति मद्भावे हि प्रकाशिते । पशुभावं पुरस्कुर्वन् मद्भावं च विनिन्दकः ॥ ५५ ॥ आगमैः कल्पितैर्देव मद्भावाद्दिमुखान् कुरु । ईश्वर उवाच तदाज्ञां शिरसि धृत्वा विष्णोरमिततेजसः ॥ ५६ ॥ तथैवाहं महेशानि कृतवांस्तन्त्रविस्तरम् । गोपयन्दिव्यभावं च पुरस्कुर्वन् पशोर्मतम् ॥ ५७ ॥ अत एव महेशानि वैष्णवे दर्शने खलु । पूजितः पशुभावश्च शक्तिनिन्दा च वि(स्मृ?स्तृ)ता ॥ ५८ ॥ या शक्तिः सर्वभूतानां द्विधा भवति सा पुनः । स्थूलरूपा च सा देवी सूक्ष्मरूपा च पार्वति ॥ ५९ ॥ स्थूलरूपेण सा देवी सर्वमेतज्जगत्त्रयम् । मोहयित्वा जनान्सर्वान् बहुरूपौ सुखेच्छया ॥ ६० ॥ संस्थिता परमेशानि लीलाकलितविग्रहा । स्वभावतो न जानन्ति तन्मायामोहिता जनाः ॥ ६१ ॥ १ 'पान्' क पाठ ।