भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 410, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 410

सप्तत्रिंशः पटलः । ३२६ अत ऊर्ध्वं वहेद्देवि त्रिदिनं यदि मारुतः । न्यूनं वा तद्धः प्राणः शरीरं परिमुञ्चति ॥ ७३ ॥ यावत्कालं वहेदेतद्वायुश्च जगदीश्वरः । तावच्चलति देहोऽयं तद्दिना चाचलः स्मृतः ॥ ७४ ॥ निश्चलं पवनं कृत्वा योगी भवति साधकः । वायुना नीयते बाह्ये मनस्तु प्राणिनां शिवे ॥ ७५ ॥ वायौ च सुस्थिरीभूते मनोऽपि स्थिरतां वहेत् । तयोरद्वैतभावे तु निश्चलत्वं गते द्वयोः ॥ ७६ ॥ देहं निरामय विद्धि यथाकामविलासिनम् । इह स्थित्वा यथाकामं संत्यज्य च कलेवरम् ॥ ७७ ॥ अद्वैतभावमापन्नो न स पुनरिहाव्रजेत् । प्रसङ्गात् कथिता देवि देहसिद्धिरनुत्तमा ॥ ७८ ॥ येन तेन विधानेन परितुष्टा महेश्वरी । संसारनिगडैर्बद्धः पुमान्विमुच्यते तया ॥ ७९ ॥ तस्यास्तोषं विना देवि विमुक्तिर्नैव विद्यते । अनिग्रहीतचित्तस्य पुरुषस्य महेश्वरि ॥ ८० ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे शक्तिमा- हात्म्य-देहसिद्धिवर्णनं नाम सप्तत्रिंशः पटलः ॥ ३७ ॥ १ 'ना' क पाठ.। २ 'वेन' क पाठ.। ३ 'त्वगतेस्तयो' क पाठ । ४ 'अनेनैव' ख पाठ । ५ 'तन्नि' क पाठ ।