भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 421, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 421

चत्वारिंशः पटलः । —=०•❀•०=— शंभुरुवाच कथ्यतां देवदेवेशि व्यक्तीभूतावुभौ कथम् । शिवशक्तिमयं ज्ञानं कथं वा जायते तथा ॥ १ ॥ जगन्मय्युवाच पुंभावः शिव ईत्याहुः स्त्रीभावः प्रकृतिः परा । शिवो ज्ञानमयो देहे शक्तिर्बुद्धिमयी परा ॥ २ ॥ शुक्लं शिवो महामेदः शक्तिः कुण्डलिनी त्विति । लिङ्गं शिवस्तथा शक्तियोंनिर्जगति दृश्यते ॥ ३ ॥ इत्येवं त्रिपुरा शक्तिरित्येवं त्रिपुरः शिवः । नानयोर्विद्यते भेदो या शक्तिः स शिवो ध्रुवम् ॥ ४ ॥ न शिवेन विना शक्तिर्न शक्तिरहितः शिवः । न तद्भूतस्तयोर्भेदश्चन्द्रचन्द्रिकयोरिव ॥ ५ ॥ एवं तौ सर्वभूतेषु द्विधाभूतौ व्यवस्थितौ । तस्मान्नास्ति तयोर्भिन्नं जगदेतच्चराचरम् ॥ ६ ॥ पिता माता सुतश्चेति भावोऽयं विविधो (मु? मृ)षा । स्वाँविद्यासुदृढाभ्यासाद् दृढीभूतो हृदि स्थितः ॥ ७ ॥


१ 'मि' क. पाठ. । २ 'व' क पाठ । ३ 'क्त्यावा' क पाठ । 'स्व' क पाठ. ।

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक) · पृष्ठ 421, कुल 446 में से · BharatKosha