गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 422, कुल 446 में से
संदर्भ में पढ़ेंचत्वारिंशः पटलः । ३४१ गुरुवाक्येन तं विद्याद् दृढाभ्यासेन मानवः । जीवन्मुक्तः सर्वभूतमयो भवति वै ध्रुवम् ॥ ८ ॥ शरीरं विविधाङ्गं मे कथ्यते शृणु सादरम् । ब्रह्मैवाहं नचान्योऽस्मि शरीरमेतदेव हि ॥ ९ ॥ चैतन्यं सर्वभूतानां शब्दब्रह्मस्वरूपकम् । वर्णरूपेण तद्व्यक्तं मन्त्रविद्यादिभेदतः ॥ १० ॥ कुङ्कुमागुरुकस्तूर्या रोचनाचन्दनेन्दुभिः । प्रकाश्य तव पीठे तु शक्त्यन्तःस्थं यथा भवेत् ॥ ११ ॥ तत्र पूजा सदा कार्या तत्तद्धर्मविधानतः । सर्वेषामेव देवानां मन्त्रमाद्यं शरीरकम् ॥ १२ ॥ पूजयेत्तद् गुरुमन्त्रदेवतात्मस्वरूपतः । द्वितीयं कथ्यते देव यत्पुनर्ध्यानगोचरम् ॥ १३ ॥ कृत्वा रत्नमयं रूपं शुद्धकाञ्चननिर्मितम् । प्रत्यहं पूजयेद्देवममुत्र मासि मासि च ॥ १४ ॥ वार्षिकं त्वथ वा कुर्यान्महोत्सवमनुत्तमम् । विमुखो दम्भमाश्रित्य द्रव्यनाशैवशादुत ॥ १५ ॥ महोत्सवाविधौ यो मे (स्व ? स ) स्याद्भग्नमनोरथः । विमुखास्तस्य दुर्बुद्धेः पितरः सौमरा गणाः ॥ १६ ॥ तस्मात्परदिने४ प्राप्ते बोधयित्वा विधानतः । प्रत्यहं पूजयेद्भक्त्या पूर्णं५ तस्या महोत्सवम् ॥ १७ ॥ तृतीयं कथ्यते यन्त्रं रौत्नं६ वा हेमनिर्मितम् । मद्भावरूपमात्रं तु विदित्वा सद्गुरोर्बुधः ॥ १८ ॥ . 'हर्मन्त्री' क पाठः । २ 'दोषो नाश्य' क पाठ । ३ 'समरा' क पाठ । ४ 'न' ख पाठ । ५ 'पूर्णान्त स्यान्म' क पाठ । ६ 'र' ख पाठ ।