गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 424, कुल 446 में से
संदर्भ में पढ़ेंचत्वारिंशः पटलः । ३४३ निसर्गदुर्गमः कौलः सुगम इव भात्यसौ । ब्रह्मविष्णुशिवादीनां प्रभवो यत्र कीर्तितः ॥ ३० ॥ तद्रूपं मे परं धाम ब्रह्मणो व्यक्तजन्मनः । सद्गुरोः कृपया लब्धौ तत्र पूजा महोदया ॥ ३१ ॥ ब्रह्मप्रकाशकं तत्त तन्निष्ठं ब्रह्म चोच्यते । स्वयं प्रकाशते ब्रह्म यस्य दर्शनतः शिवः ॥ ३२ ॥ स्पर्शनात्पूजयेद्य॑स्य ब्रह्मरायेव निमज्जति । आनन्दाब्धौ निमज्ज्येव भवाब्धि स न पश्यति ॥ ३३ ॥ कौलो धर्मस्त्वया प्रोक्तस्तमासाद्य कुलं यजेत् । मद्रूपा परमा शक्तिर्लिङ्गरूपी भवान् प्रभुः ॥ ३४ ॥ शुक्रं शिवो रजः शक्तिरिति जानीहि शंकर । त्वया मया जगदिदं परिपूर्णं महेश्वर ॥ ३५ ॥ एकैवाहं परं ब्रह्म शिवशक्तीति भेदतः । संप्रभिन्नं जगदिदं भ्रम एवात्र कारणम् ॥ ३६ ॥ त्वमहं चेति यत्प्रोक्तं तदविद्या(श्र?भ्र)मो महान् । तत्त्वमसि स एवाहं न त्वं नाहं तदेव यत् ॥ ३७ ॥ आवयोर्नहि भेदोऽस्ति युक्त्या बुध्यस्व शंकर । मदन्तेस्त्वयि संलीने त्वमेवाहं भवान् प्रभुः ॥ ३८ ॥ आवयोः सरलाकारमभून्मिलितयोः शिव । तन्महामोक्षमाप्नोति भोगेनैव महेश्वर ॥ ४६ ॥ कल्पकोटिसहस्राणि कल्पकोटिशतानि च । पूजनान्नहि मे प्रीतिर्यदिहान्यप्रकारतः ॥ ४० ॥
१ 'व' क पाठ । २ 'तम्' क पाठ. । ३ 'रुध्वा' क पाठ । ४ 'ना' ख पाठ । ५ 'त्वा' क पाठ ।