गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 430, कुल 446 में से
संदर्भ में पढ़ेंएकचत्वारिंशः पटलः । ३४६ अगम्यकारणत्वाच्च गम्यावावांमिति प्रिये । इदन्तयाऽहन्तया वा सर्वेषामन्तरात्मनि ॥ १९ ॥ प्रतीयमानस्त्वर्थो यस्तदेव शिवनिर्णयम् । पूर्णाहन्तास्वभावेन कृत्रिमाहन्तया विना ॥ २० ॥ बहिरन्तोरिदं विश्वं यः पश्यति स·पश्यति । अहन्तायां महादेवि त्वमेव प्राणिनां प्रिया ॥ २१ ॥ अज्ञानामपि चात्मा त्वं सर्वे तेऽनुत्तरप्रियाः । पार्वत्युवाच त्वया पूर्वोपदिष्टं यत्तत्त्वं श्रीमत्परामयम् ॥ २२ ॥ तदेव निर्वाणपदमिति प्रोक्तं तया मया । इदानीमतिगुह्यानां तदेवार्थमनुत्तरम् ॥ २३ ॥ प्रशंससे परानन्दविमर्शाविष्टविग्रह । एतस्मिन्नेव कैवल्ये चेतःश्लेषो न मे विभो ॥ २४ ॥ शभुरुवाच सत्यमेव त्वयाख्यातमुभयं तव सुन्दरि । परया त्वपि तत्प्राप्यं पूर्वोदितमनुत्तमम् ॥ २५ ॥ यत् संमतं तथाप्येतत् तयोरप्यन्तरं महत् । परा तु सप्तविंशत्या अन्तर्वाह्यक्रियागणैः ॥ २६ ॥ पूज्या चास्त्मकलांशेति केषांचिद्योगिनीमतम् । मानरूपक्रियोपाधिविहीनत्वान्महेश्वरि ॥ २७ ॥ पराया अपि तत्प्राप्यं पूर्वोदितमनुत्तरम् । पार्वत्युवाच अस्य माहात्म्यमेवोक्तं त्वया मे बहुधा विभो ॥ २८ ॥ १ 'वा मूत्ति' क पाठ । २ 'द' क पाठ. । ३ 'स्मान' क. पाठं । ४ 'द्या' क पाठ । ५ 'ष' क पाठ. ।