गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 429, कुल 446 में से
संदर्भ में पढ़ें३४८ गन्धर्वतन्त्रे । त्वमप्येवं स्मरस्यस्मात् त्वयापि विदितं प्रिये । सच्चित्संयोगसंसिद्धिस्त्वद्द्दश्या मम सा यतः ॥ ८ ॥ तदेव चोत्तरं प्राहुः सत्यं सत्यं मयोदितम् । तदेव चित्सदाद्यन्तावैक्येन संस्थितं यदा ॥ ९ ॥ तदा शांभवमित्याहुर्मुनयस्तत्त्ववित्तमाः । तदेवाहमितींभावपूर्णानन्दो यदा भवेत् ॥ १० ॥ तदैव शंभुभावः स्यादुक्तमेतत्पदत्रयम् । शक्रोस्त्रिशूली सर्गोऽन्तं तैरेवालंकृता यदि ॥ ११ ॥ सैव हि श्रीपरेत्युच्चैर्मुनिभिः परिकीर्त्तिता । प्रकाशानन्दसंदोहकैवल्यमहमोश्रया ॥ १२ ॥ मत्परत्वान्महासिद्धयै सा परेति च कथ्यते । ये मन्त्राः परमेशानि तेनादावपि संयुताः ॥ १३ ॥ ते जीवन्ति च मन्त्रेभ्यो ह्यन्योन्यमिति मे मतिः । सप्तषष्टिप्रकृत्यर्णा जगत्सृष्ट्यादिकर्तृकाः ॥ १४ ॥ एतेषां जीवभूतत्वादनुत्तरमिदं जगत् । पार्वत्युवाच सकला निष्कलाश्चैव मुक्तिमार्गप्रबोधकाः ॥ १५ ॥ मन्त्रास्तु बहवः सन्ति वद तेषामनुत्तरम् । शंभुरुवाच केषांचिदस्मदुक्तानामेतेऽप्यनर्थदर्शर्णा (?) ॥ १६ ॥ आवयोर्देवदेवेशि मनूनां कारणं मनोः । सर्वेषामेव मन्त्राणां प्राप्यावावां महेश्वरि ॥१७ ॥ आवयोरपि तत्प्राप्यमनुत्तरमिति स्मृतम् । अप्येतदक्षरावृत्तेर्गम्यागम्यतया स्थितम् ॥ १८ ॥ १ 'द्धिमम वश्या मवसायत ' क. पाठः । २ 'ऋत्रि' क. पाठः । ३ 'दा' क पाठ. ।