गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 428, कुल 446 में से
संदर्भ में पढ़ेंएकचत्वारिंशः पटलः । —=-: ֍ :-=— अतुलैकरसानन्दं कैवल्यायतनं शिवम् । नत्वा शिष्येव सानन्दा तमुवाच परा शिवा ॥ १ ॥ पार्वत्युवाच प्रसीद परमानन्दमय संशान्तविग्रहे¹ । यद्यदेव परं तत्त्वं तत्त्वतो विदितं मया ॥ २ ॥ त्वया देव समाख्याताः सर्वे मन्त्राः क्रियाः पराः । योगाः समाधयो ज्ञानं तथा चान्ये मदीप्सिताः ॥ ३ ॥ तेषां हि कारणं तत्त्वं यदीश परतः परम् । वक्तुमर्हसि तत्त्वेन शांभवं चाप्यनुत्तरम् ॥ ४ ॥ वाच्यस्वरूपठ्याप्तित्वं ज्ञातुमिच्छामि तत्त्वतः । प्रकाशो विमर्शाधीन इति.सत्यं यदि प्रभो ॥ ५ ॥ ममाधीनस्त्वमेवाँसि³ यथोक्तं वद् शंकर । शंभुरुवाच अतिगुह्यतमं सूक्ष्ममवाङ्मनसगोचरम् ॥ ६ ॥ मया यत्नेन गुप्तं तन्न तत्कस्यापि कथ्यते । अहमेव त्वमप्यँस्मि³ खलूक्तेति च मे मतिः ॥ ७ ॥
१ 'सशक्तिविग्रह ' क पाठ.। २ 'व स्यात्' क पाठ । ३ 'प्यस्य' क. पाठ ।