गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 433, कुल 446 में से
संदर्भ में पढ़ें३५२ गन्धर्वतन्त्रे । प्रकाशितं तदेवाशु विस्मयाविष्टचेतसा । महदाश्चर्यमेतन्मे सम्पूर्णोऽयं यदास्थितः ॥ ५० ॥ इति संचिन्त्य देवस्य पादमाश्लिष्य सुन्दरी । त(व?दा)चान्योन्यमथनात्सान्द्रानन्दाभिनन्दिता ॥ ५१ ॥ यत्प्रकाशात्मकं सर्वं तत्त्वं केवलतां गतम् । विमर्शावनि²संप्राप्तमित्येषा तात्त्विकी स्थितिः ॥ ५२ ॥ अवधानैकभावानां मतिः सा साच्चिरूपिणी । तत्प्रमाणैः वरार्कैः³ किं तैश्चिदेवाप्रमाणका ॥ ५३ ॥ नहि वैकर्तनं ज्योतिर्दीपालोकमपेक्षते । आदर्शे विमलाभोगे यथा सर्वं प्रकाशते ॥ ५४ ॥ इत्थं चिदात्मकं विश्वं षट्त्रिंशत्तत्त्वभेदनम् । आदौ शुद्धात्मकं तत्त्वं पञ्चधा तमसः परम् ॥ ५५ ॥ शिवः शक्तिश्च सादाख्य ईशो विद्येति भिद्यते । हृक्षादिशान्तवर्णात्मा निरमायि यदा शिवे ॥ ५६ ॥ कलाविद्या रागकालौ नियतिर्वर्म⁴ उच्यते । मायापूर्वो वकारादियकारान्ताक्षरात्मकम् ॥ ५७ ॥ प्रधानं⁵ पुंमनो बुद्धिरहंकृन्मादिपञ्चकम्⁶ । श्रोत्रादिपञ्चकं ताँदि⁷ टादि वार्गादिपञ्चकम् ॥ ५८ ॥ तन्मात्रपञ्चकं चाँदि⁸ भूम्यादि कादिपञ्चकम् । सिसृक्षोः प्रथमः स्पन्दः शिवतत्त्वं प्रभोः स्मृतम् ॥ ५६ ॥ इच्छैवास्यापरम्लाना शक्तितत्त्वमुदङ्कुशम् । स्वेच्छया सूचितं विश्वमाच्छाद्याहन्तया¹² स्थितः ॥ ६० ॥ १ 'मृश्या' ख पाठः । २ 'र्षमवनि पा' क पाठः । ३ 'कैस्तैश्चिर्देवा' प्रमाणकः' के पाठः । ४ 'र्वन्ध' ख पाठ । ५ 'प्रमाणं च मनो' क पाठ. । ६ 'हहृ' क पाठ. । ७ 'लादिवादि' क पाठ । ८ 'मादि ज्ञादि' क पाठ. । ९ 'स्य' क पाठ' । १० 'त्त्वं मद' क पाठ । ११ 'त्व' क पाठ । १२ 'श्च मन्' क पाठध