गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 436, कुल 446 में से
संदर्भ में पढ़ेंहृदयं बीजमेतस्याः संविदो यत्परं महः । वटबीजे यथा वृक्षस्तद्वत् संनिहितं जगत् ॥ ८२ ॥ विचार्यमाणो यो नैव कारणादतिरिच्यते । मृदादेः कलशादीनां तत्त्वं नान्यन्निरूपणे ॥ ८३ ॥ इत्याहुस्तत्त्ववादिन्यः श्रुतीनामन्तिमा गिरः । इदं सर्वं सदेवासीदग्र इति विनिश्चयात् ॥ ८४ ॥ सत्तावाचिनि बीजेऽस्मिन् क्ष्मादिमायान्तिमं जगत् । विलुप्तप्रत्ययाकारमेतत् स परिशिष्यते ॥ ८५ ॥ ततो ज्ञानक्रियासारा विद्येश्वरसदाशिवाः । शक्तौ त्रिशूले लीयन्ते चतुर्दशकलात्मनि ॥ ८६ ॥ ऊर्ध्वाधः सृष्टिवपुषि सर्वं लीनमतः परम् । इत्थं परस्यां संवित्तौ साँ विसर्गचितिः क्रमात् ॥ ८७ ॥ अथ वाञ्जनसातीते यत्र क्वापि निरञ्जने । षट्त्रिंशत्तत्त्वलहरीकलहातीतगोचरे ॥ ८८ ॥ विश्वात्मनि महामन्त्रे स्वभावे सा विलीयते । कुतश्चिन्मथिते धाम्नि दीप्ते केनापि हेतुना ॥ ८९ ॥ सर्वं हविरिदं जुह्वन्न दारिद्र्येण पीड्यते । पञ्चपञ्चात्मकं देवि पञ्चस्पन्दविजृम्भितम् ॥ ६० ॥ संकोचयन् परामर्शी सामान्यस्पन्दकेवलम् । अहमि प्रलयं कुर्वन्निदमः प्रतियोगिनः । पराक्रमपरो भुङ्क्ते स्वभावमशिवापहम् ॥ ६१ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादेऽनुत्तरज्ञानप्र- क्रियानिरूपणं नामैकचत्वारिंशः पटलः ॥ ४१ ॥ १ 'वेद' क पाठ. । २ 'वाह नासीत्' क वान्यन्नासीत्' ख पाठ. । ३ 'शक्तिशूलिनि' क 'लिन्याम' ख. पाठ. । ४ 'सर्वसंकुचित' क. पाठ. । ५ 'फल' क. पाठः । ६ 'दमप्र' क. पाठः ।