भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 437, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 437

द्विचत्वारिंशः पटलः। —:—❁०❁—:— श्रीपार्वत्युवाच कथमुत्पद्यते वाणी कथं वा सा विलीयते । वाचो विनिर्णयं ब्रूहि पश्चात्त्वत्समुदीरय ॥ १ ॥ ईश्वर उवाच अव्यक्तात्प्राण उत्पन्नः प्राणादुत्पद्यते मनः । मनस उत्पद्यते वाग्वाङ्मनसि विलीयते ॥ २ ॥ देव्युवाच आहारं काङ्क्षते कोऽसौ भुङ्क्ते चं पिबते च कः । जागर्ति १सुप्यते कोऽसौ सुप्तः कोऽसौ ३प्रबुध्यते ॥ ३ ॥ ईश्वर उवाच आहारं काङ्क्षते प्राणो भुङ्क्ते चैव हुताशनः । जागर्ति सुप्यते वायुः सुप्ते तेजः प्रबोधयेत् ॥ ४,॥ देव्युवाच को वा करोति पापानि को वा पापेन लिप्यते । को वा बद्धो विमुक्तः कः को वा पापैः प्रमुच्यते ॥ ५ ॥ ईश्वर उवाच मनः करोति पापानि मनः पापेन लिप्यते । मनस्युन्मननीभूते न धर्मो नापि पातकः ॥ ६ ॥ १ 'चापिबतीश' क पाठ । २ 'स्वप' क पाठ । ३ 'द्धते' क पाठ ।