गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 441, कुल 446 में से
संदर्भ में पढ़ें३६० गन्धर्वतन्त्रे । ते ब्रह्मलोकेषु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे । विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरीरः ॥ ३८ ॥ स्वस्वाश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य । हृत्पुण्डरीके विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् ॥ ३९ ॥ अचिन्त्यमव्यक्तमनन्तरूपं शिवं शान्तममृतं ब्रह्म योनिम् । अथादिमध्यान्तविहीनमेकं विधिं¹ चिदानन्दरूपमद्भुतम् ॥ ४० ॥ उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥ ४१ ॥ स ब्रह्मा शिवः स इन्द्रः सोऽक्षरः परमः स्वराट् । स³ एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः ॥ ४२ ॥ स⁴ एव सर्वं यद्भूतं यच्च भव्यं सनातनम् । ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये ॥ ४३ ॥ सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । संपश्यन् परं ब्रह्म याति नान्येन हेतुना ॥ ४४ ॥ १ 'भु' क, पाठः । २ 'श' क. पाठ. । ३ 'स विष्णु' ४ 'स स' क पाठ ।