गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 442, कुल 446 में से
संदर्भ में पढ़ेंआत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ज्ञाननिर्मथनाभ्यासात् पापं दहति पण्डितः ॥ ४५ ॥ स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् । स्त्रीस्वन्नपानादिविचित्रभोगैः स एव जाग्रत्परितृप्तिमेति ॥ ४६ ॥ स्वप्ने च जीवः सुखदुःखभोक्ता स्वमायया कल्पितविश्वलोके । सुषुप्तिकाले सकले विलीने तमोभिभूतः सुखरूपमेति ॥ ४७ ॥ पुनश्च जन्मान्तरकर्मयोगात् स एव जीवः स्वपिति प्रबुद्धः । पुरत्रये क्रीडति यश्च जीव- स्ततस्तु जातं सकलं विचित्रम् ॥ ४८ ॥ आधारमानन्दमखण्डबोधं यस्मिंल्लयं याति पुरत्रयं च । एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापश्च पृथिवी विश्वधारिणी ॥ ४९ ॥ यत्पुनर्ब्रह्म सर्वात्मा सर्वस्यायतनं महत् । सूक्ष्मात् सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् ॥ ५० ॥ जाग्रत्स्वप्नसुषुप्त्यादि प्रपञ्चं यत्प्रकाशते । तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ ५१ ॥
१ 'ध्या' ख पाठ । २ 'तो' क पाठ ।