गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 82, कुल 446 में से
संदर्भ में पढ़ेंअथ गन्धर्वतन्त्रम् । —०:***.० — शिवप्रोक्तम् । —:०:— प्रथमः पटलः । ॐ नमः परदेवतायै । यं वदन्त्यमलात्मानः पुरुषं प्रकृतेः परम् । चिद्रूपं परमानन्दं वन्दे देवं विनायकम् ॥१ १ ॥ भर्तारं गुणवृद्धिशून्यमचलं गत्वाभिसारक्रमाद् दीव्यन्ती कुलवर्त्मनैव गुणवत्यानन्दमातन्वती । शेते सुप्तभुजङ्गपोतकुटिला या मेरुमूलं गता सूते (यन्त्र? पुत्र) शतानि तानि सुरजिन्मुख्यानि पायादसौ २ विश्वामित्र इति ख्यातो नृपः परमधार्मिकः । सिद्धिं दृष्ट्वा वसिष्ठस्य तपस्तेपे सुदुश्चरम् ॥ ३ ॥ अप्राप्य तपसः सिद्धिमुदीचीं दिशमाविशत् । गङ्गाद्वारसमासीनं मुनिं योगपरायणम् ॥ ४ ॥ दत्तात्रेयं महाभागमभिवाद्य कृताञ्जलिः । उवाचेदं वचस्तस्मै विनयानतकन्धरः ॥ ५ ॥ विश्वामित्र उवाच नाद्रा (द्यं? द्यं) सम्यगिष्ट्वापि क्रतुभिर्बहुदक्षिणैः । सत्पात्रे सर्वदानानि कृत्वापि मुनिसत्तम ॥ ६ ॥ ———————————————————————— १ ‘तं विघ्ना’ क पाठ ।