भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 93, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 93

बहुनात्र किमुक्तेन जल्पितेनापि सुन्दरि ॥ २८ ॥ वागीशं स्पर्धते वाक्यैः सर्वज्ञो भुवि जायते । मूको भवति वागीशो वाचस्पतिरिवापरः ॥ २९ ॥ १ शिवचन्द्रौ समुद्धृत्य कामव्योमपुरन्दरान् । उद्धरेत् परमेशानि लज्जाबीजं ततः प्रिये ॥ ३० ॥ कामराजमिदं भद्रे षड्वर्गा सर्वशोभितम् । † चन्द्रः कामस्तथेन्द्रश्च महामाया ततः परम् ॥ ३१ ॥ शक्तिबीजं वरारोहे वेदाक्षरसमन्वितम् । त्रिकूटेयं महाविद्या महात्रिपुरसुन्दरी ॥ ३२ ॥ सर्वतीर्थम(ये?यी) देवी सर्वदेवस्वरूपिणी । सर्वशास्त्रमयी शुद्धा सर्वदोषविवर्जिता ॥ ३३ ॥ चतुर्वेदमयी साक्षात् सर्वसौभाग्यदायिनी । कामराजाख्यविद्येयं भोगमोक्षफलप्रदा ॥ ३४ ॥ अनया सदृशी विद्या त्रिषु लोकेषु दुर्लभा । एतस्या एव विद्यायाः शक्तिं तुर्यं च पार्वति ॥ ३५ ॥ हित्वा मुखे शिवेन्दुभ्यां लोपामुद्रा प्रकाशिता । § मारबीजं ततो योनिः कामः (शु?श)क्रं तथेश्वरी ॥ ३६ ॥ १ 'र्द्ध' क पाठ । २ 'यदॆव' क पाठ. । † शिव ह चन्द्र स काम. क व्योम ह पुरन्दर ल लज्जा ह्री इति कामराजकूटम् । ‡ चन्द्र स काम क इन्द्र ल महामाया ह्री इति शक्तिकूटम् ।

  • उक्ताया एव विद्याया वाग्भवादौ शक्तितुर्ये एई विहाय शिव ह् इन्दुः स इत्येतत् द्वयमादौ नियोज्य लोपामुद्रोपासिता विद्या भवति । § मार. क योनि ए काम क शक्र ल ईश्वरो ही इति वाग्भवकूटस्थाने विन्यस्य पूर्ववत्कामराजशक्तियोगात् शाम्भवी विद्या ।