गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 94, कुल 446 में से
संदर्भ में पढ़ेंद्वितीयः पटलः । १३ पूर्ववत् कामराजं च शक्तिकूटं तथैव च । सवीर्या सिद्धिदा विद्या त्रैलोक्यवशकारिणी ॥ ३७ ॥ तव स्नेहान्महेशानि मयेयं तु प्रकाशिता । एतच्छांभवमुद्दिष्टं शृणु शाक्तमतः परम् १ ॥ ३८ ॥ † शक्तिर्महेशः कामश्च इन्द्रबीजमतः परम् । महामाया ततः पश्चात् पूर्ववदपरं ततः ॥ ३६ ॥ विद्यात्रयमिदं भद्रे दुर्लभं भुवनत्रये । देव्युवाच षोडशार्णां महाविद्यां त्रैलोक्यवशदायिनीम् ॥ ४० ॥ अधुना कथयेशान यद्यहं तव वल्लभा । ईश्वर उवाच शृणु देवि महाविद्यां षोडशाक्षररूपिणीम् ॥ ४१ ॥ एतस्या एव विद्याया यद्याद्ये भुवनेश्वरी । तदेयं परमेशानि षोडशाक्षररूपिणी ॥ ४२ ॥ मायास्थाने (वा?२) माबीजं दत्त्वान्या ‡ षोडशी भवेत् । वरदा सिद्धिदा विद्या३ कुबेरास्पददायिनी ॥ ४३ ॥ चिन्तामणिरियं विद्या त्रैलोक्ये चापि दुर्लभा । • वेदादिमण्डिता चान्या विद्या मोक्षप्रदायिनी ॥ ४४ ॥ तथैव हि महाँबीजं रमाबीजं तथैव च । १ 'र' क पाठ । २ 'द्यात्' क पाठ । ३ माया' ख पाठ । † शक्ति स महेश ह काम क इन्द्र ल महामाया ह्रीँ इति प्रागुक्तविद्याया वाग्- भवे नियोज्य शाक्ती विद्या सपद्यते । ‡ भुवनेश्वरी ही तदादियुता पूर्वोक्ता विद्या षोडशार्णा । अथवाद्यौ रमाबीजोपेता तथा भवति ।