भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 95, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 95

पञ्चदशाक्षरीविद्यां तथैव च समुद्धरेत् ॥ ४५ ॥ सेयं <sup></sup>सप्तदशी विद्या साक्षात् जाग्रत्स्वरूपिणी । देव्युवाच ततः कथय देवेश राजराजेश्वरीं पराम् ॥ ४६ ॥ षोडशार्णां महाविद्यां त्रैलोक्यवशदायिनीम् । जननीं सर्वमन्त्राणां परब्रह्मस्वरूपिणीम् ॥ ४७ ॥ ईश्वर उवाच राजराजेश्वरीं विद्यां तथास्याः कवचं प्रिये । यो जानाति महीपृष्ठे स देवो नतु मानुषः ॥ ४८ ॥ राजराजेश्वरी विद्या कथ्यते शृणु पार्वति । रमाबीजं समुद्धृत्य मायाबीजं नियोजयेत् ॥ ४६ ॥ कामबीजं समालिख्य वाग्बीजं तदनन्तरम् । चतुर्दशस्वरोपेतं चन्द्रं बिन्दुयुगान्वितम् ॥ ५० ॥ प्रणवं भुवनेशानीं रमां चैव महेश्वरि । पञ्चदशाक्षरीं पश्चादुद्धरेत् परमेश्वरि ॥ ५१ ॥ व्युत्क्रमात् परमेशानि पूर्वोक्तबीजपञ्चकम् । आलिख्य संपुटीकुर्याद् विद्येयं ह्यष्टकूटका । ॥ ५२ ॥ तुरीयेयं महाविद्या केवलात्मस्वरूपिणी । षोडशार्णा महाविद्या श्रीविद्या कथिता परा ॥ ५३ ॥ <sup></sup> समनन्तरोक्ता पञ्चदशाक्षरी मायारमाभ्या ह्रीं श्रीं इत्याभ्यामाद्ययोजिता सप्तद- शाक्षरी विद्या भवति । <sup></sup> रमा श्री माया ही कामबीज क्लीं वाग्बीज ऐं चतुर्दशस्वरोपेत सविसर्गश्चन्द्रः सौः प्रणव ओङ्कार भुवनेशानी ह्रीं रमा श्री तत पञ्चदशाक्षरी व्युत्क्रमैः बीजपञ्च- कैश्च सपुटिता षोडशकटा तुरीया विद्या भवति ।