गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 125, कुल 360 में से
संदर्भ में पढ़ें६० गौतमधर्मसूत्राणि
ऋत्विगादीनामात्मनो यवीयसां प्रत्युत्थानमात्रेण पूजा कार्या न पुनस्तेऽभिवाद्याः ॥ ९ ॥
अपने से छोटी आयु के ऋत्विज्, श्वशुर, चाचा और मामा के आगमन पर अपने आसन से उठने पर ही अभिवादन हो जाता है ॥ ६ ॥
तथाऽन्यः पूर्वः पौरोऽशीतिकावरः शूद्रोऽप्यपत्यसमेन ॥ १० ॥
ऋत्विगादयो यथा प्रत्युत्थेया नाभिवाद्यास्तथाऽयमपि । अन्यस्तेभ्योऽन्यः । पूर्वो वयसाऽधिकः । पौरः पुरवासी । वयसाऽधिक्येऽपि पुरवासादपकर्ष उक्तः । अशोतिरेवाशोतिका तयाऽवरोऽशीतिकावरः । न्यूनाशीतिक इत्यर्थः । एवंविधः शूद्रोऽप्यपत्यसमेन प्रत्युत्थेयो नाभिवाद्यः । अपत्यसमेनेत्यत्यन्तयवीयस्ता दर्शिता । शूद्रग्रहणमवरवर्णोपलक्षणम् । ततश्च शूद्रस्त्रिभिरपि वर्णैर्वैश्यो द्वाभ्यां क्षत्रियस्तु ब्राह्मणेनेति सिध्यति ॥ १० ॥
(अपने से अल्प आयु वाले ऋत्विज् आदि के समान ही) अधिक आयु वाले पुरवासी, अस्सी वर्ष से कम आयु के शूद्र के आने पर उनके पुत्र के समान आयु वाले व्यक्ति को अपने स्थान से उठकर स्वागत करना चाहिए (अभिवादन नहीं करना चाहिए) ॥ १० ॥
अवरोऽप्यार्यः शूद्रेण ॥ ११ ॥
न्यूनाशीतिकेन शूद्रेणावरोऽप्यार्यो यवीयानप्यार्यस्त्रैवर्णिकः प्रत्युत्थेयो नाभिवाद्यः । अत्रापि शूद्रग्रहणमवरवर्णोपलक्षणम् । ततश्च शूद्रेण त्रयो वर्णाः । वैश्येन द्वौ । क्षत्रियेण ब्राह्मण इत्यवरवयसः प्रत्युत्थेया नाभिवाद्या इति सिध्यति ॥ ११ ॥
(अस्सी वर्ष से कम आयु वाले) शूद्र को अल्प आयु वाले द्विज के आने पर उठ जाना चाहिए (अभिवादन नहीं करना चाहिए) ॥ ११ ॥
नाम वाऽस्य वर्जयेत् ॥ १२ ॥
अस्येत्यत्र वीप्सालोपः । अस्यास्योत्कृष्टोत्कृष्टस्यापकृष्टो न नाम गृह्णीयात् । किं त्वौपचारिकं नाम गृह्णीयात् ॥ १२ ॥
अपने से श्रेष्ठ व्यक्ति के नाम का उच्चारण नहीं करना चाहिए ॥ १२ ॥
राज्ञश्चाजपः प्रेष्यः ॥ १३ ॥
अजपोऽश्रोत्रियः । प्रेष्यः प्रेषकरः । स उत्कृष्टवर्णो ब्राह्मणोऽपि राज्ञोऽभिषिक्तस्य नाम वर्जयेत् ॥ १३ ॥