भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 140, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 140

सानुवाद-मिताक्षरावृत्तिसहितानि ७५

मासौ समुदायतयैकः संस्कारः। सोमसंबन्धाभावाद्धविर्यज्ञा इति ॥२०॥
अग्न्याधेय, अग्निहोत्र, दर्श और पूर्णमास, आग्रयण, चातुर्मास्य, निरूढपशु-बन्ध और सौत्रामणि—ये सात हविर्यज्ञ की संस्थाएँ ( भी संस्कार ) हैं ॥ २० ॥

अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्त सोमसंस्थाः ॥ २१ ॥
अग्निष्टोमो राजन्यस्य । षोडशिग्रहो गृह्यते यत्र सोऽत्यग्निष्टोमः । ब्राह्मणस्य कथमयं संस्कार इति चिन्त्यम् । अन्ये प्रसिद्धाः ॥ २१ ॥
अग्निष्टोम, अत्यग्निष्टोम, उक्थ, षोडशी, वाजपेय, अतिरात्र और अप्तोर्याम—ये सात सोमयज्ञ की संस्थाएँ ( भी संस्कार ) हैं ॥ २१ ॥

इत्येते चत्वारिंशत्संस्काराः ॥ २२ ॥
इत्युक्तोपसंहारः । चत्वारिंशद्ग्रहणादेव तावन्त एव संस्काराः । नान्यानि स्मार्तकर्मणि काम्यादीनि चेति ॥ २२ ॥
इस प्रकार ये सब मिलाकर चालीस संस्कार हुए ॥ २२ ॥

अथाष्टावात्मगुणाः ॥ २३ ॥
वक्ष्यन्त इति शेषः । अथशब्दः संभावनायाम् ॥ २३ ॥
अब आठ आत्मगुण बताये जा रहे हैं ॥ २३ ॥

दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गलमकार्पण्यमस्पृहेति ॥ २४ ॥
आत्मवत्सर्वभूतेषु यद्धिताय शिवाय च ।
वर्तते सततं हृष्टः कृत्स्ना ह्येषा दया स्मृता ॥ १ ॥
आक्रुष्टोऽभिहतो वाऽपि न क्रोशेन्न च ताडयेत् ।
अदुष्टो वाङ्मनःकायैः सा तितिक्षा क्षमा स्मृता ॥ २ ॥
यो धर्ममर्थं कामं च लभते मोक्षमेव च ।
न द्विष्यात्तं सदा प्राज्ञः साऽनसूया स्मृता बुधैः ॥ ३ ॥
द्रव्यशौचं मनःशौचं वाचिकं कायिकं तथा ।
शौचं चतुर्विधं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥ ४ ॥
यदारम्भे भवेत्पीडा नित्यमत्यन्तमात्मनः ।
तद्वर्जयेद्धर्म्यमपि सोऽनायासः प्रकीर्तितः ॥ ५ ॥
प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम् ।
एतद्धि मङ्गलं प्रोक्तं मुनिभिस्तत्त्वदर्शिभिः ॥ ६ ॥