भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 139, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 139

७४ . गौतमधर्मसूत्राणि

तानाह— अष्टका पार्वणः श्राद्धं श्रावण्याग्रहायणी चैत्र्याश्वयुजीति सप्त पाकयज्ञसंस्थाः ॥ १९ ॥

ऊर्ध्वमाग्रहायण्यास्त्रयोऽपरपक्षास्तेष्वेकैकस्मिन्नेकाऽष्टका भवतीतिच्छन्दोगाः । हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकैकस्यां चेत्याश्वलायनः । या माघ्याः पौर्णमास्या उपरिष्टान्मध्याष्टका तस्यामष्टमो ज्येष्ठया संपद्यते । तामेकाष्टकेत्याचक्षत इत्यापस्तम्बः । एवंभूताऽष्टका । पर्वणि भवः स्थालीपाकः पार्वणः । श्राद्धं मासि श्राद्धम् । श्रावणी सर्पबलिः । श्रावण्यां पौर्णमास्यां गृह्यमग्निमतिप्रणीयेत्यादिच्छन्दोगाभिहितः । श्रावण्यां पौर्णमास्यामस्तमिते स्थालीपाक इत्यापस्तम्बः । आग्रहायणो मार्गशीर्ष्यां पौर्णमास्यां क्रियमाणः सर्पबलिरुत्सर्गहोमः । हेमन्ते प्रत्यवरोहणाख्यं च कर्माऽऽग्रहायणीशब्देनोच्यते । चैत्री शूलगवः । ईशानबलिरित्यापस्तम्बीयानां प्रसिद्धः स चैत्र्यां पौर्णमास्यां भवति । अथ शूलगवः शरदि वसन्ते चेत्याश्वलायनः । आश्वयुजां रुद्राय स इति च्छन्दोगाः । आश्वयुज्यां पौर्णमास्यां तत्कर्म निवेशनमलंकृत्य स्नाताः शुचिवाससः पशुपतये स्थालीपाकं निरूप्य जुहुयुरित्याश्वलायनः । अनाहिताग्नेराग्रयणमपि तत्रैव भवति । तदिदं द्वयमाश्वयुजीशब्देन विवक्षितम् । पाकयज्ञ इति गार्ह्याणां कर्मणामाख्या । यथाऽऽहाऽऽपस्तम्बः—लौकिकानां पाकयज्ञशब्द इति । संस्थाविधाः पाकयज्ञविधाः समेत्यर्थः ॥ १९ ॥

अष्टका (आग्रहायणी के बाद तीन अपरपक्षों की अष्टमी तिथियों पर किया जाने वाला पाकयज्ञ अथवा हेमन्त और शिशिर ऋतुओं के चार अपरपक्षों की अष्टमी तिथियों को किया जाने वाला पाकयज्ञ), पार्वण (पर्वों पर किये जाने वाले स्थालीपाक कर्म), श्राद्ध (मासिक श्राद्ध), श्रावणी (सर्पबलि या श्रावण की पूर्णिमा को सूर्यास्त होने पर किया जाने वाला स्थालीपाक यज्ञ), आग्रहायणी (मार्गशीर्ष पूर्णिमा को किया जाने वाला सर्पबलि उत्सर्ग होम), चैत्री (चैत्र पूर्णिमा को किया जाने वाला शूलगव या ईशानबलि), आश्वयुजी (आश्विन पूर्णिमा को पशुपति के स्थालीपाक होम)—ये सात पाकयज्ञ संस्थाएँ हैं ॥ १९ ॥

अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्त हविर्यज्ञसंस्थाः ॥ २० ॥

अग्न्याधेयादयः श्रुतिसिद्धाः संस्कारेषु गण्यन्ते । सप्तग्रहणाद्दर्शपूर्ण-