गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 138, कुल 360 में से
संदर्भ में पढ़ेंसानुवाद-मिताक्षरावृत्तिसहितानि ७३
बुद्धिपूर्वस्य तु प्रसङ्गाभावात् । इतिशब्दः प्रकारवचने । यच्चान्यदेवंरूपसंभाषादि तदपि वर्ज्यमिति ॥ १३ ॥
ऐसे बहुश्रुत ब्राह्मण वध (शारीरिक दण्ड), बन्धन, आर्थिक दण्ड, ग्राम से निष्कासन, दोष प्रचार द्वारा अपमान और त्याग के योग्य नहीं होते हैं ॥ १३ ॥
चत्वारिंशत्संस्कारैरित्युक्तं तानाह—
गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौलोपनयनम् ॥ १४ ॥
समाहारद्वंद्वः । गर्भाधानमृतावुपैयादित्यादिकालनियमेन सूत्रकारोक्तविधाननिषेकः । गर्भाधानादयः संस्कारास्तत्तद्गृह्येषूक्ताः । इह तु संस्कारगणनार्थं स्वरूपनिर्देशमात्रं कृतम् ॥ १४ ॥
गर्भाधान, पुंसवन, सीमन्तोन्नयन, जातकर्म, नामकरण, अन्नप्राशन, चौल, उपनयन ॥ १४ ॥
चत्वारि वेदव्रतानि ॥ १५ ॥
एतानि प्रतिवेदं प्रतिशाखं च गृह्येषूक्तानि ॥ १५ ॥
वेदाध्ययन के चार व्रत ॥ १५ ॥
स्नानं सहधर्मचारिणीसंयोगः ॥ १६ ॥
स्नानं समावर्तनम् । सहधर्मचारिणीसंयोगो विवाहः ॥ १६ ॥
समावर्तन स्नान और विवाह ॥ १६ ॥
पञ्चानां यज्ञानामनुष्ठानं देवपितृमनुष्यभूतब्रह्मणाम् ॥ १७ ॥
पञ्चानां देवानां यज्ञास्तेषामनुष्ठानम् । एतत्पञ्चमहायज्ञानुष्ठानमहरहः कर्तव्यम् । न तु सकृत्कृतेन संस्कारसिद्धिः । पञ्चग्रहणात्पञ्चैते पृथक्संस्कारा न पुनः समुदिता एकः संस्कारः ॥ १७ ॥
देवयज्ञ, पितृयज्ञ, मनुष्ययज्ञ, भूतयज्ञ और ब्रह्मयज्ञ इन पाँच यज्ञों का अनुष्ठान ॥ १७ ॥
एतेषां च ॥ १८ ॥
वक्ष्यमाणानामष्टकादीनां च पाकयज्ञानामनुष्ठानं संस्कार इति ॥ १८ ॥
तथा इन (आगे बताये जाने वाले अष्टका आदि पाकयज्ञों) का अनुष्ठान ॥ १८ ॥