गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 142, कुल 360 में से
संदर्भ में पढ़ेंअथ प्रथमप्रश्ने नवमोऽध्यायः
स विधिपूर्वकं स्नात्वा भार्यामधिगम्य यथोक्तान्गृहस्थ-धर्मान्प्रयुञ्जान इमानि व्रतान्यनुकर्षेत् ॥ १ ॥
तच्छब्देन पूर्वाध्यायोक्तराजा ब्राह्मणश्च परामृश्यते । वैश्यस्य तु स्नातकविषये विशेषं वक्ष्यति । विधिपूर्वं विधिं पुरस्कृत्य स्नात्वा वेद-व्रतानि पारं नीत्वा समावर्तनं कृत्वा भार्यामधिगम्य विवाहं कृत्वा तद्-नन्तरं यथोक्तानतिथिपूजादिगृहस्थधर्माननुतिष्ठन्निमान्यपि वक्ष्यमाणानि व्रतान्यनुकर्षेत् । आत्मानं प्रापयेदनुतिष्ठेदिति ॥ १ ॥
वह (ब्राह्मण और क्षत्रिय) विधिपूर्वक समावर्तन स्नान करके विवाह करे और ऊपर कहे गये गृहस्थ धर्मों का पालन करते हुए इन व्रतों का आचरण करे ॥ १ ॥
स्नातकः ॥ २ ॥
चलोपो द्रष्टव्यः । स्नातकश्चैतानि गृहस्थव्रतान्यनुतिष्ठेत् । ब्रह्मचर्या-न्निवृत्तत्वाद्गार्हस्थ्यव्यतिरिक्ताश्रमान्तराभावाच्च भार्याधिगमादूर्ध्वमिति पूर्व-सूत्रमारब्धम् । स्नातकस्य तु भार्याधिगमासंभवे यावज्जीवं गृहस्थधर्मा एवानुष्ठेया इति सूत्रान्तरमारब्धम् । एतच्च राजब्राह्मणयोरेव स्नातक-व्रतानुष्ठानं तदतिक्रमे प्रायश्चित्तं च विधीयते । तथा च स्मृत्यन्तरम्— राजब्राह्मणयोरेव नेतरेषां कथंचनेति ॥ २ ॥
स्नातक भी इन नियमों का पालन करे (स्नातक विवाह न करने पर भी आजीवन गृहस्थ धर्म का ही पालन करे) ॥ २ ॥
कानि पुनस्तानि व्रतानि—
नित्यं शुचिः सुगन्धिः स्नानशीलः ॥ ३ ॥
आचमनादिना नित्यं शुचिः शक्तिविषये न मुहूर्तम्प्यप्रयतः स्यात् । सुगन्धिश्चन्दनाद्यनुलिप्तेन सुरभिताङ्गः । यद्वा गन्धः शीलं सुशीलः स्यादिति । स्नानशीलो नित्यस्नायी स्यात् । अत्र स्नातकविषये वसिष्ठः—
स्नातकानां तु नित्यं स्यादन्तर्वासस्तथोत्तरम् ।
यज्ञोपवीते द्वे यष्टिः सोदकञ्च कमण्डलुः ॥ इति ।
मनुः—
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ।