गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
अथ प्रथमप्रश्ने नवमोऽध्यायः
स विधिपूर्वकं स्नात्वा भार्यामधिगम्य यथोक्तान्गृहस्थ-धर्मान्प्रयुञ्जान इमानि व्रतान्यनुकर्षेत् ॥ १ ॥
तच्छब्देन पूर्वाध्यायोक्तराजा ब्राह्मणश्च परामृश्यते । वैश्यस्य तु स्नातकविषये विशेषं वक्ष्यति । विधिपूर्वं विधिं पुरस्कृत्य स्नात्वा वेद-व्रतानि पारं नीत्वा समावर्तनं कृत्वा भार्यामधिगम्य विवाहं कृत्वा तद्-नन्तरं यथोक्तानतिथिपूजादिगृहस्थधर्माननुतिष्ठन्निमान्यपि वक्ष्यमाणानि व्रतान्यनुकर्षेत् । आत्मानं प्रापयेदनुतिष्ठेदिति ॥ १ ॥
वह (ब्राह्मण और क्षत्रिय) विधिपूर्वक समावर्तन स्नान करके विवाह करे और ऊपर कहे गये गृहस्थ धर्मों का पालन करते हुए इन व्रतों का आचरण करे ॥ १ ॥
स्नातकः ॥ २ ॥
चलोपो द्रष्टव्यः । स्नातकश्चैतानि गृहस्थव्रतान्यनुतिष्ठेत् । ब्रह्मचर्या-न्निवृत्तत्वाद्गार्हस्थ्यव्यतिरिक्ताश्रमान्तराभावाच्च भार्याधिगमादूर्ध्वमिति पूर्व-सूत्रमारब्धम् । स्नातकस्य तु भार्याधिगमासंभवे यावज्जीवं गृहस्थधर्मा एवानुष्ठेया इति सूत्रान्तरमारब्धम् । एतच्च राजब्राह्मणयोरेव स्नातक-व्रतानुष्ठानं तदतिक्रमे प्रायश्चित्तं च विधीयते । तथा च स्मृत्यन्तरम्— राजब्राह्मणयोरेव नेतरेषां कथंचनेति ॥ २ ॥
स्नातक भी इन नियमों का पालन करे (स्नातक विवाह न करने पर भी आजीवन गृहस्थ धर्म का ही पालन करे) ॥ २ ॥
कानि पुनस्तानि व्रतानि—
नित्यं शुचिः सुगन्धिः स्नानशीलः ॥ ३ ॥
आचमनादिना नित्यं शुचिः शक्तिविषये न मुहूर्तम्प्यप्रयतः स्यात् । सुगन्धिश्चन्दनाद्यनुलिप्तेन सुरभिताङ्गः । यद्वा गन्धः शीलं सुशीलः स्यादिति । स्नानशीलो नित्यस्नायी स्यात् । अत्र स्नातकविषये वसिष्ठः—
स्नातकानां तु नित्यं स्यादन्तर्वासस्तथोत्तरम् ।
यज्ञोपवीते द्वे यष्टिः सोदकञ्च कमण्डलुः ॥ इति ।
मनुः—
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ।
| ७८ | गौतमधर्मसूत्राणि |
|---|
यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥ इति ।
वेदो दर्भमुष्टिः ॥ ३ ॥
( आचमन आदि द्वारा ) नित्य पवित्र रहे, सुगन्धित द्रव्यों का लेप करे और स्नान करे ॥ ३ ॥
सति विभवे न जीर्णमलवासाः स्यात् ॥ ४ ॥
विभवेऽन्यस्य संभवे सति जीर्णं मलवच्च वासो न धारयेत् ॥४॥
यदि दूसरे वस्त्र हों तो फटे हुए और मैले वस्त्र न पहने ॥ ४ ॥
न रक्तमुल्बणमन्यधृतं वासो बिभृयात् ॥ ५ ॥
कुसुम्भादिरागयुक्तमुल्बणं बहुमूल्यमन्यधृतं गुरुवर्जमन्यैः पूर्वधृतमेवंविधानि वासांसि न धारयेत् । सति विभव इत्यनुवर्तते ॥ ५ ॥
रंगे हुए, बहुमूल्य और दूसरे (गुरु के अतिरिक्त अन्य व्यक्ति) द्वारा पहले पहने गए वस्त्रों को न धारण करे ॥ ५ ॥
न स्रगुपानहौ ॥ ६ ॥
स्रगुपानहावप्यन्यधृते न धारयेत् ॥ ६ ॥
दूसरे व्यक्ति द्वारा पहनी हुई माला और दूसरे के जूते न पहने ॥ ६ ॥
निर्णेक्तमशक्तौ ॥ ७ ॥
अन्यस्यालाभोऽशक्तिः । अशक्तावन्यधृतं वासः स्रगुपानहौ च निर्णिज्य धारयेत् । तत्र वासोनिर्णेजनं ऊषरोदके पङ्के कार्यम् ॥ ७ ॥
स्वयं अभावग्रस्त होने पर दूसरे के पहने हुए (वस्त्र, माला, जूता आदि) को धोकर पहन सकता है ॥ ७ ॥
न रूढश्मशुरकस्मात् ॥ ८ ॥
श्मश्रुग्रहणं नखादीनामप्युपलक्षणार्थम् । अकारणान्न रूढश्मश्रुः स्यात् । कारणे सति रूढश्मश्रुः स्यात् । कारणं तु स्मृत्यन्तरे पठितम्—
षष्ठाब्दे षोडशाब्दे च विवाहाब्दे तथैव च ।
अन्तर्वत्न्यां च जायायां क्षौरकर्म विवर्जयेत् ॥ इति ।
वपनस्यापि गङ्गायां भास्करक्षेत्र इत्यादिना चोदितकालत्वात्कथं तर्हि स्यात्तत्र मनुः—
क्लृप्तकेशनखश्मश्रुरिति कल्पना कर्तनेन समीकरणम् । याज्ञवल्क्यश्च—शुक्लाम्बरधरो नोचकेशश्मश्रुनखः शुचिः । इति ॥ ८ ॥
अकारण दाढ़ी (और नाखून) न बढ़ावे ॥ ८ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ७९
नाग्निमपश्च युगपद्धारयेत् ॥ ९ ॥
एकेन हस्तेनाग्निमपरेणापश्च युगपन्न धारयेत् । अत्र व्याघ्रो विशेषमाह— न धारयेदपश्चाग्निमपश्चान्नं तथैव च । युगपत्स्नातको नित्यं तद्भार्याऽपि तथैव च ॥ इति ॥ ९ ॥
अग्नि और जल को एक साथ न ले। (अर्थात् एक हाथ में अग्नि और दूसरे हाथ में जल लेकर न चले) ॥ ९ ॥
नाञ्जलिना पिबेत् ॥ १० ॥
यत्किञ्चित्क्षीरोदकादि पेयमञ्जलिना न पिबेत् । संयुक्तौ हस्ता-वञ्जलिः ॥ १० ॥
(दूध, जल आदि पेय पदार्थ को) अञ्जलि से न पीये ॥ १० ॥
न तिष्ठन्नुद्धृतोदकेनाऽऽचामेत् ॥ ११ ॥
उद्धृतोदकेन तिष्ठन्नाऽऽचामेत् । आसीन एवाऽऽचामेत् । उद्धृतोद-केनेति वचनात्तटाकादिषु तीरप्रदेशस्याशुचित्वे जानुदध्ने जले तिष्ठतोऽ-प्याचमनमप्रतिषिद्धम् । आचारोऽप्येवमेव शिष्टानाम् ॥ ११ ॥
लाये गये जल से खड़े होकर आचमन न करे (बैठकर आचमन करे) ॥ ११ ॥
न शूद्राशुच्येकपाण्यावर्जितेन ॥ १२ ॥
शूद्रेण शुचिनाऽप्यस्पृश्यस्पर्शादिदूषितेन द्विजेनाप्येकेन पाणिना च यदावर्जितं तेनोदकेन नाऽऽचामेत् । स्वयं तु वामहस्तावर्जितेनोदके-नाऽऽचमनविषय एकपाण्यावर्जितत्वं समानमिति चेन्न । हस्तद्वयस्याप्या-चमनकर्मसम्बन्धात्तथा च शिष्टाचारदर्शनात् ॥ १२ ॥
शूद्र के स्पर्श से दूषित द्विज द्वारा एक हाथ से डाले जाने वाले जल से आचमन न करे ॥ १२ ॥
न वाय्वग्निविप्रादित्यापो देवता गाश्च प्रति पश्यन्वा मूत्र-पुरीषामेध्यान्व्युदस्येत् ॥ १३ ॥
अपूशब्दान्ते द्वन्द्व आर्षत्वात्समासान्तो न कृतः । अनित्याः समा-सान्ता इति केषांचित्पक्षः । देवताः प्रतिमाः । वाय्वादीन्प्रति सूत्रादीनि न व्युदस्येत्पश्यन्वा न कुर्यादिति प्रति पश्यन्वेत्यर्थः । प्रति न कुर्यादित्या-भिमुख्यवर्जनम् । पश्यन्न कुर्यादिति नियमादाभिमुख्ये सत्यप्यनवलो-
८० | गौतमधर्मसूत्राणि
कनम्। मूत्रपुरीषयोः पृथगुपादानादमेध्यशब्देन निष्ठीवनोच्छिष्टादि विवक्षितं तर्ह्यमेध्यशब्देनैवालम्। मूत्रपुरीषग्रहणं तु तयोरतिशयेन वर्जनार्थम् ॥ १३ ॥
वायु, अग्नि, ब्राह्मण, सूर्य, जल, देवता, गौ की ओर मुख करके अथवा उन्हें देखते हुए मूत्र और मल का त्याग न करे और न थूक, खकार, उच्छिष्ट फेंके ॥ १३ ॥
नैता देवताः प्रति पादौ प्रसारयेत् ॥ १४ ॥
एता वाय्वाद्या देवताः प्रति पादौ न प्रसारयेत्। पादावित्युपलक्षणं पादं च न प्रसारयेत्। गोषु विप्रेषु च देवतापदप्रयोगस्तद्वदपचारार्थः ॥ १४ ॥
इन देवताओं ( तथा गौ एवं ब्राह्मण ) की ओर पैर न फैलावै ॥ १४ ॥
न पर्णलोष्टाश्मभिर्मूत्रपुरीषापकर्षणं कुर्यात् ॥ १५ ॥
न पर्णादिभिर्मूत्रपुरीषयोरपकर्षणमपमार्जनं कुर्यात् । अन्यैस्तु कुर्यादिति ॥ १५ ॥
पत्ते, ढेला और पत्थर से मूत्र और मल न हटाये ॥ १५ ॥
न भस्मकेशनखतुषकपालमेध्यान्यधितिष्ठेत् ॥ १६ ॥
भस्मादीनि नाऽऽक्रामेत् । तुषा व्रीह्यादीनां त्वचः । अन्ये प्रसिद्धाः । तेषामुपरि न तिष्ठेत् । अधितिष्ठेदित्यनेन यादृच्छिकस्पर्शमात्रे न दोषः ॥ १६ ॥
भस्म, केश, नख, भूसी, कपाल और मेध्य ( अपवित्र पदार्थ ) पर न बैठे ॥ १६ ॥
न म्लेच्छाशुच्यधार्मिकैः सह संभाषेत ॥ १७ ॥
वर्णाश्रमधर्मरहिते देशे सिंहलद्वीपादौ ये वसन्ति ते म्लेच्छाः। अशुचय आर्या अपि विहितानि संध्यावन्दनादीनि ये न कुर्वन्ति ते तथोक्ताः। अधार्मिकाः पतितादयस्तैः सह न संभाषेत। संशब्दप्रयोगादेव सिद्धे सहग्रहणं तैः सहैककार्यो भूत्वा न संभाषेतेत्येवमर्थम्। तेन मार्गप्रश्नादौ न दोषः ॥ १७ ॥
( वर्णाश्रमधर्महीन ) म्लेच्छों, ( सन्ध्यावन्दन आदि न करने वाले आर्य जाति के ही ) अपवित्र व्यक्तियों एवं पतितों के साथ संभाषण न करे ॥ १७ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ८१
संभाष्य पुण्यकृतो मनसा ध्यायेत् ॥ १८ ॥ यदि कारणवशात्तैः सह संभाषेत ततः पुण्यकृतो वसिष्ठादीन्मनसा ध्यायेत् । मनसेति ध्यानस्वभावानुवादः ॥ १८ ॥ यदि किसी कारण से संभाषण करे तो उसके बाद ( वसिष्ठ आदि ) पुण्यात्माओं का मन से ध्यान करे ॥ १८ ॥
ब्राह्मणेन वा सह संभाषेत ॥ १९ ॥ प्रकरणाद्ब्राह्मणोऽपि पुण्यकृदेव ॥ १९ ॥ अथवा ( म्लेच्छादि से कारणवश भाषण करने के बाद ) ब्राह्मण से संभाषण करे ॥ १९ ॥
अधेनुं धेनुन्भव्येति ब्रूयात् ॥ २० ॥ धेनुः पयस्विनी गौः । अधेनुस्तद्विपरीता । तामपि धेनुर्भव्येति ब्रूयान्न पुनरधेनुरिति ॥ २० ॥ दूध न देनेवाली गायको 'धेनुभव्या' ( भविष्य में दूध देने वाली ) कहे ॥ २० ॥
अभद्रं भद्रमिति ॥ २१ ॥ अभद्रमपि वस्तु भद्रमित्येव ब्रूयात् ॥ २१ ॥ अभद्र ( वस्तु ) को भी भद्र कहे ॥ २१ ॥
कपालं भगालमिति ॥ २२ ॥ कपालं ब्रुवन्भगालमिति ब्रूयात् ॥ २२ ॥ कपाल को 'भगाल' कहे ॥ २२ ॥
मणिधनुरितीन्द्रधनुः ॥ २३ ॥ इन्द्रधनुरिति ब्रुवन्मणिधनुरिति ब्रूयात् ॥ २३ ॥ इन्द्रधनु कहना हो तो 'मणिधनु' कहे ॥ २३ ॥
गां धयन्तीं परस्मै नाऽऽचक्षीत ॥ २४ ॥ धेट् पाने । व्यत्ययेनायं कर्मणि कर्तृप्रत्ययः । वत्सेन धीयमानां गां परस्मै स्वामिने न ब्रूयात् । यस्य हविषे वत्सा अपाकृता धयेयुरित्यादिके निमित्ते त्वाख्यातव्यमेव संसृष्टां च वत्सेनेत्यापस्तम्बीये विशेषात् ॥ २४ ॥
६ गौ० ध०
| ८२ | गौतमधर्मसूत्राणि |
|---|
बछड़े को दूध पिलाती हुई गाय की बात दूसरे (गाय के स्वामी) से न कहे ॥ २४ ॥
न चैनां वारयेत् ॥ २५ ॥
न च स्वयमप्येनां वारयेदिति ॥ २५ ॥
और न स्वयं उस गाय को बछड़े से अलग करे ॥ २५ ॥
न मिथुनी भूत्वा शौचं प्रति विलम्बेत ॥ २६ ॥
मिथुनीभूय स्त्रियमुपगम्य शौचं प्रति न विलम्बेत। तत्क्षण एव कुर्यात्। शौचं त्वापस्तम्बेनाभिहितम्—उदकोपस्पर्शनमपि वा लेपान्प्र-क्षाल्याऽऽचम्य प्रोक्षणमङ्गानामिति ॥ २६ ॥
गृहस्थ सम्भोग करने के बाद (जलस्पर्श, आचमन आदि) शुद्धिकर्म करने में विलम्ब न करे ॥ २६ ॥
न च तस्मिन्शयने स्वाध्यायमधीयीत ॥ २७ ॥
यस्मिन्मिथुनमाचरितम् ॥ २७ ॥
उसी शय्या पर (जिस पर संभोग किये हो) वेदशास्त्र का अध्ययन न करे ॥ २७ ॥
न चापररात्रमधीत्य पुनः प्रतिसंविशेत् ॥ २८ ॥
यः पूर्वरात्रे सुप्त्वाऽपररात्र उत्थायाधीते। न स पुनः प्रतिसंविशेत्। कालदैर्घ्ये सति पुनर्न स्वप्याच्छेषां रात्रि जागृयादेवेति पुनर्ग्रहणात्पूर्वरात्रे-ऽसुप्तस्य स्वापे न दोषः ॥ २८ ॥
आधी रात के बाद निद्रा से उठकर अध्ययन करके फिर (रात्रि शेष रहने पर भी) न सोए ॥ २८ ॥
नाकल्पां नारीमभिरमयेत् ॥ २९ ॥
अकल्पां रोगादिनाऽस्वस्थां नारीं नाभिरमयेत्। नानया मिथुनी-भवेत् ॥ २९ ॥
रोग आदि से अस्वस्थ स्त्री के साथ संभोग न करे ॥ २६ ॥
न रजस्वलाम् ॥ ३० ॥
रजस्वलामपि नारीं नाभिरमयेत्। उदक्यागमने त्रिरात्रमिति प्राय-श्चित्तं वक्ष्यति तेनैव सिद्धे वचनमिदं त्रिरात्रादूर्ध्वमप्यनिवृत्ते रजसि गम-नप्रतिषेधार्थम् ॥ ३० ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ८३
रजस्वला स्त्री से संभोग न करे ॥ ३० ॥
न चैनां श्लिष्येन्न कन्याम् ॥ ३१ ॥
एनां रजस्वलां कन्यामनूढामपि न श्लिष्येन्नाऽऽलिङ्गेत् ॥ ३१ ॥
इस रजस्वला स्त्री और अविवाहिता कन्या का आलिङ्गन न करे ॥ ३१ ॥
अग्निमुखोपधमनविगृह्यवादबहिर्गन्धमाल्यधारणपापीयसा-
वलेखनभार्यासहभोजनाञ्जन्त्यवेक्षणकुद्वारप्रवेशनपादधावना-
सन्दीस्थभोजननदीबाहुतरणवृक्षविषमारोहणावरोहणप्राणव्याय-
च्छनानि वर्जयेत् ॥ ३२ ॥
उपधमनमुपध्मानं नाग्नि मुखेनोपधमेन्न ज्वलयेत् । विगृह्यवादो वाक्कलहः । गन्धमाल्ययोर्बहिर्धारणं प्रकाशधारणमिति । अनाविःस्रगनुलेपनः स्यादित्यापस्तम्बः । पापीयसावलेखनमशुचिना काष्ठादिना शिरःप्रभृतेः कण्डूयनं तृतीयाया अलुक्छान्दसः । भार्यया सह भोजनं भार्यया सहैकस्मिन्भाजने भोजनम् । केषुचिद्देशेष्वाचारात्प्राप्तौ सत्यां निषेधः । अन्ये त्वेकस्मिन्काले भोजनं सहभोजनमिच्छन्ति । अञ्जन्त्यवेक्षणम् । अञ्जन्ती तैलाभ्यङ्गं कुर्वत्यञ्जनादिभिरलंक्रीयमाणा वा तस्या अवेक्षणं तच्च भार्याविषयमित्येके स्त्रीमात्रविषयमित्यन्ये । कुद्वारप्रवेशनं द्वारव्यतिरिक्तप्रदेशेन देवालयगृहादेः प्रवेशनमप्रसिद्धमार्गेण नगरग्रामादेः प्रवेशनमिति । यथा चाऽऽपस्तम्बः—न कुमृत्य ग्रामं प्रविशेद्यदि प्रविशेन्नमो रुद्राय वास्तोष्पतय इत्येतामृचं जपेदन्यां वा रौद्रीमिति । पादपादधावनं पादेन पादप्रक्षालनम् । आसन्दोस्थभाजनम् , आसन्दी पीठिका तत्रस्थस्यान्नस्य भोजनमासन्दीस्थभोजनम् । यद्वा यत्राऽऽसीनो भुङ्क्ते तत्राऽऽसने भोजनपात्रं निधाय यद्भोजनं तद्वा । नदीबाहुतरणं बाहुभ्यां नद्या स्तरणं पारगमनम् । बाहुतरणात्प्लवादौ न दोषः । नदीग्रहणं तडागादीनामप्युपलक्षणम् । वृक्षविषमारोहणावरोहणे वृक्षस्याऽऽरोहणं विषमस्य कूपादेरवरोहणं च । वृक्षविषमग्रहणेनात्युन्नतनिम्नस्थलं लक्ष्यते । प्राणव्यायच्छनं प्राणोपरोध्युल्लङ्घनजलयन्त्राद्यभिरोहणम् । एतान्यग्निमुखोपधमनादीनि वर्जयेत् ॥ ३२ ॥
मुँह से अग्नि जलाना, वाक्कलह, गन्ध और माला को बाहर धारण करना, अपवित्र काष्ठ आदि से शिर आदि खुजलाना, पत्नी के साथ एक ही थाली में या एक ही समय पर भोजन करना, अञ्जन ( स्नान या शृङ्गार ) करती हुई स्त्री को निहारना, मन्दिर, घर या ग्राम में प्रसिद्ध मार्ग को छोड़कर किसी अन्य
.८४ गौतमधर्मसूत्राणि
मार्ग से प्रवेश करना, पैर से पैर धोना, बैठने के आसन पर रखे हुए अन्न का भोजन (अथवा जिस आसन पर बैठकर भोजन करना चाहिए उस पर भोजन रखकर खाना), बाहुओं से तैरकर नदी (तालाब आदि) पार करना, वृक्ष पर और ऊँची-नीची भूमि पर चढ़ना उतरना, और प्राणसंकट से युक्त कर्म करना—इन सबका त्याग करे ॥ ३२ ॥
न संदिग्धां नावमधिरोहेत् ॥ ३३ ॥
पारगमने संदिग्धामसमर्थां नावं नाधितिष्ठेत् ॥ ३३ ॥
जिस नाव के पार पहुँचने में सन्देह हो उस पर न चढ़े ॥ ३३ ॥
प्रतिपदपाठस्याशक्यत्वात्संक्षिप्याऽऽह—
सर्वत एवाऽऽत्मानं गोपायेत् ॥ ३४ ॥
सर्वेभ्य उपायेभ्य आत्मानं रक्षयेत्। एको न गच्छेदध्वानमित्यादिभ्यः ॥ ३४ ॥
सभी उपायों से अपनी रक्षा करे ॥ ३४ ॥
न प्रावृत्य शिरोऽहनि पर्यटेत् ॥ ३५ ॥
प्रावृत्याऽऽशिरसो दिवा चङ्क्रमणप्रतिषेधः। आसीनस्य यथारुचि। मार्गे वर्षातपादिबाधे प्रावृत्यापि चङ्क्रमणे न दोषः। सर्वत एवाऽऽत्मानं गोपायेत्युक्तत्वाद् ॥ ३५ ॥
दिन में सिर ढककर (सिर तक ढककर) न घूमे ॥ ३५ ॥
प्रावृत्य रात्रौ ॥ ३६ ॥
रात्रौ तु शिरः प्रावृत्यैव पर्यटेत् ॥ ३६ ॥
रात्रि में सिर ढककर ही घूमे ॥ ३६ ॥
मूत्रोच्चारे च ॥ ३७ ॥
मूत्रणं मूत्र उच्चारः पुरीषकर्म तयोः समाहारद्वंद्वः। तत्र च शिरः प्रावृत्य प्रावृतशिराः कर्म कुर्यादिति शेषः ॥ ३७ ॥
मूत्र और मल त्याग के समय सिर ढका रखे ॥ ३७ ॥
न भूमावनन्तर्धाय ॥ ३८ ॥
मूत्रपुरीषकर्मणी भूमौ तृणादिभिरन्तर्धायैव कुर्यात्। अयज्ञियैस्तृणैरिति स्मृत्यन्तरे ॥ ३८ ॥
मूत्र और पुरीष कर्म भूमि (अयज्ञिय) तृणों से छिपाये बिना न करे ॥ ३८ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ८५
नाऽऽराच्चाऽऽवसथात् ॥ ३९ ॥
आवसथो गृहम् । तत्समीपे न कुर्याद् ॥ ३९ ॥
घर के निकट मल-मूत्र का त्याग न करे ॥ ३९ ॥
न भस्मकरीषकृष्टच्छायापथिकाम्येषु ॥ ४० ॥
करीषं गोमयम् । छायोपजीव्याः पथिकादयो यत्र विश्राम्यन्ति । काम्यं कमनीयः प्रदेशः । भस्मादिष्वेतेषु मूत्रपुरीषकर्मणी न कुर्यात् ॥४०॥
भस्म, गोबर, पथिकों के विश्राम योग्य छायादार मार्ग तथा मनोरम स्थान पर मूत्र और मल का त्याग न करे ॥ ४० ॥
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः ॥ ४१ ॥
मूत्रपुरीषे दिवा चेदुदङ्मुख एव कुर्यात् ॥ ४१ ॥
मूत्र और पुरीष दोनों ही कर्म दिन में उत्तर की ओर मुख करके करे ॥ ४१ ॥
संध्ययोश्च ॥ ४२ ॥
उदङ्मुखः कुर्यादिति ॥ ४२ ॥
दोनों सन्ध्या कालों में भी ( उत्तर की ओर मुख करके मूत्र और पुरीष करे ) ॥ ४२ ॥
रात्रौ दक्षिणामुखः ॥ ४३ ॥
स्पष्टम् ॥ ४३ ॥
रात्रि में दक्षिण दिशा की ओर मुख करके मूत्र और पुरीष करे ॥ ४३ ॥
पालाशमासनं पादुके दन्तधावनमिति च वर्जयेत् ॥ ४४ ॥
इतिकारा [ दा ] द्यर्थाद्यच्चान्यदेवं युक्तं रथादि तदपि पालाशं वर्जयेत् । अत्र पठन्ति—
आसनं शयनं यानं गृहोपकरणं तथा ।
वर्जयेत्पादुकां चैव पालाशं दन्तधावनम् ॥ इति ॥ ४४ ॥
पलाश के बने आसन, खड़ाऊँ, दातौन ( और रथ आदि शयन तथा गृहोपकरण ) का प्रयोग न करे ॥ ४४ ॥
सोपानत्करश्चाऽऽसनाभिवादननमस्कारान्वर्जयेत् ॥ ४५ ॥
अभिवादनं पूर्वोक्तं, नमस्कारो देवताप्रणामः । अभिवादनादीनि सोपानत्को न कुर्यात् । उपानद्ग्रहणं पादुकादेरप्युपलक्षणम् ॥ ४५ ॥
८६ गौतमधर्मसूत्राणि
जूता (और पादुका आदि) पहने हुए आसन पर न बैठे, अभिवादन और नमस्कार न करे ॥ ४५ ॥
न पूर्वाह्णमध्यंदिनापराह्णानफलान्कुर्याद्यथाशक्ति धर्मार्थकामेभ्यः ॥ ४६ ॥
तृतीयार्थे चतुर्थी पञ्चमी वा । पूर्वाह्वादीनह्नस्त्रीन्भागान्धर्मार्थकामैर्यथाशक्त्यफलान्न कुर्यात् किं तर्हि सफलानेव कुर्याद्यथासंख्यम् ॥ ४६ ॥
पूर्वाह्न, मध्याह्न और सायंकाल को क्रमशः धर्म, अर्थ और काम को निष्फल न करे (अर्थात् धर्म, अर्थ और काम को सफल बनावे) ॥ ४६ ॥
तेषु तु धर्मोत्तरः स्यात् ॥ ४७ ॥
तुशब्दोऽनवस्थां परिहरति । तेषु धर्मार्थकामेषु धर्मोत्तरः स्याद्धर्मप्रधानः स्यात् । धर्माविरोधेनार्थकामौ सेवेतेति । तथा च मनुः— परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ । इति ॥ ४७ ॥
उन (धर्म, अर्थ और काम) में धर्म प्रधान होना चाहिए (अर्थात् धर्म के विरुद्ध अर्थ और काम का सेवन न करे) ॥ ४७ ॥
न नग्नां परयोषितमीक्षेत ॥ ४८ ॥
परा चासौ योषिच्च परयोषित् । अन्यथा विधवानूढावेश्यादयो न स्युः । तां नग्नां सतीं नेक्षेत ॥ ४८ ॥
दूसरे की स्त्री को नग्न न देखे ॥ ४८ ॥
न पदाऽऽसनमाकर्षेत् ॥ ४९ ॥
पादेनाऽऽसनमात्मसमीपं न प्रापयेत् ॥ ४९ ॥
पैर से आसन को (अपने निकट) न खींचे ॥ ४९ ॥
न शिश्नोदरपाणिपादवाक्चक्षुश्चापलानि कुर्यात् ॥ ५० ॥
चापलशब्दः प्रत्येकं संबध्यते । शिश्नचापलमक़ाले मैथुनेच्छा । उदरचापलं सर्वदा बिभक्षयिषा । पाणिचापलं शिल्पकर्मशिक्षामिलाषः । पादचापलं पर्यटनम् । वाक्चापलं नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छत इत्येतदतिक्रमेण व्यवहारः । चक्षुश्चापलं नृत्यादिदिदृक्षा । एतानि न कुर्यात् ॥ ५० ॥
लिंग की (अनुचित समय में संभोग आदि से), उदर की (अधिक भोजन
सानुवाद-मिताक्षरावृत्तिसहितानि ८७
की इच्छा से ), हाथ की ( शिल्पकर्म शिक्षा की इच्छा से ), पैर की ( घूमने से ), वाणी की ( अधिक बोलने से ), और नेत्र की ( नृत्य आदि देखने की इच्छा से ) चपलता न करे ॥ ५० ॥
छेदनभेदनविलेखनविमर्द्दनावस्फोटनानि नाकस्मात् कुर्यात् ॥ ५१ ॥
छेदनं तृणादीनाम्। भेदनं घटादेः। विलेखनं कुड्यभूम्यादौ नखादिभिर्विलेखनम्। विमर्द्दनं लोष्टादीनां चूर्णीकरणम्। अवस्फोटनमङ्गुलीनां सशब्दं प्रसारणम्। एतदकस्मान्न कुर्यात्। कारणे त्ववस्फोटनादिषु न दोषः। छेदनादिष्वपि यथासंभवं मृग्यम् ॥ ५१ ॥
( तृण आदि का ) छेदन, ( घड़े आदि का ) फोड़ना, ( दीवाल या पृथ्वी आदि पर नख आदि से ) लिखना, ढेले आदि को फोड़ना, अंगुली चटकाना—ये सब कार्य अकारण न करे ॥ ५१ ॥
नोपरि वत्सतन्तीं गच्छेत् ॥ ५२ ॥
वत्सबन्धनो रज्जुर्वत्सतन्ती । तामुपरि न गच्छेत् । वत्सशब्दो गोजातेरुपलक्षणम् ॥ ५२ ॥
बछड़े ( गौ आदि ) के पगहे के ऊपर से न जाए ॥ ५२ ॥
न कुलंकुलः स्यात् ॥ ५३ ॥
कुलमेव कुलं यस्य स कुलंकुलः। छान्दसो मुडागमः। एवंविधो न स्यात्। अन्यत्र गमनेऽध्ययनादिलाभे सति स्वकुल एव न तिष्ठेदिति। अपर आह—कुलात्कुलान्तरगामी कुलंकुलो दत्तादिरूपेण तथाविधो न स्यात्। स्वसूत्रपरित्यागेन परसूत्रं न भजेदिति। तत्र स्मृत्यन्तरम्—
यः स्वसूत्रं परित्यज्य परसूत्रं निषेवते।
शाखारण्डः स विज्ञेयः सर्वकर्मबहिष्कृतः ॥ इति ॥ ५३ ॥
( अन्यत्र जाकर अध्ययन करना संभव हो तो ) अपने कुल में ही न पड़ा रहे अथवा दत्तक होकर एक कुल से दूसरे कुल में ही न भटकता रहे। अथवा अपने सूत्र का परित्याग करके दूसरे के सूत्र को न अपनाए ॥ ५३ ॥
न यज्ञमवृतो गच्छेत् ॥ ५४ ॥
अवृतोऽनुपामन्त्रितो यज्ञं न गच्छेत् ॥ ५४ ॥
आमन्त्रित न होने पर यज्ञ में ( भाग लेने ) न जाए ॥ ५४ ॥
८८ गौतमधर्मसूत्राणि
दर्शनाय तु कामम् ॥ ५५ ॥
अवृतोऽपि कामं दर्शनाय यज्ञं गच्छेत् । न त्वार्त्विज्यादिलिप्सया ॥ ५५ ॥
यज्ञ देखने के लिए तो आमन्त्रित न होने पर भी अपनी इच्छा से जा सकता है ॥ ५५ ॥
न भक्ष्यानुत्सङ्गे भक्षयेत् ॥ ५६ ॥
भक्षाः पृथुकादयस्तानुत्सङ्गे कृत्वा न भक्षयेत् ॥ ५६ ॥
(पृथुक आदि) खाने की वस्तुएँ गोदी में या आंचल में रखकर न खाए ॥ ५६ ॥
न रात्रौ प्रेष्याहृतम् ॥ ५७ ॥
रात्रौ प्रेष्येण किंकरेण यदानीतं तद्यत्किंचिदपि न भक्षयेत् । न भक्षानेव । एकवचननिर्देशात् ॥ ५७ ॥
रात्रि में सेवक द्वारा लाई गई किसी भी वस्तु का भोजन न करे ॥ ५७ ॥
उद्धृतस्नेहविलपनपिण्याकमथितप्रभृतीनि चाऽऽत्तवीर्याणि नाश्नीयात् ॥ ५८ ॥
आत्तवीर्याण्युपात्तसारांशानि नाश्नीयात् । कानि पुनस्तानि तेषामुदाहरणप्रपञ्चः । उद्धृतस्नेहे उपात्ताग्रमण्डे दधिपयसी । विलपनं नवनीतमलम् । यन्त्रे पीडितानां तिलानां कल्कः पिण्याकम् । यस्य मथनमात्रं नाम्बुसंसर्गस्तदपि मथितम् । यथाहूर्नैघण्टिकाः—
तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम् । इति ।
तच्च द्विविधम् । आत्तनवनीतमितरच्च । तत्राऽऽद्यस्येह ग्रहणं तद्व्यात्तवीर्यस्योदाहरणम् । प्रभृतिग्रहणेन यच्चान्यदेवंविधं कल्करूपं तस्य ग्रहणम् । उद्धृतनवनीतं तक्रमाश्यमनाश्यमिति चिन्त्यम् । आचारस्त्वशनमेव । अभक्ष्यप्रकरणे वक्तव्य इह वचनात्स्नातकव्रतलोपे यत्प्रायश्चित्तं तदेवैषामशने भवति नाभक्ष्यभक्षणनिमित्तम् ॥ ५८ ॥
जिन वस्तुओं का रस निकाल लिया गया हो ऐसी वस्तुओं, मक्खन निकाले गये दधि और दूध, तिल की खली, केवल मथे गए दूध और दही तथा इस प्रकार के अन्य निःसार पदार्थों को न खाए ॥ ५८ ॥
सायंप्रातस्त्वन्नमभिपूजितमनिन्दन्भुञ्जीत ॥ ५९ ॥
तुशब्दस्त्ववधारणे । सायं रात्रिः प्रातरहस्तयोर्द्वयोरेककालयोरशनं भुञ्जीत । नान्तरेति प्राप्तस्य भोजनस्य परिसंख्येयम् । तत्र गुणविधिरभि-
सानुवाद-मिताक्षरावृत्तिसहितानि ८९
पूजितमनिन्दन्निति । अभिपूजितं रोचत इति । अनिन्दन्कदन्नत्वादिदो- षेणाकुत्सयन् । सायं प्रातरशनान्यभिपूजयेदिति वसिष्ठः ॥ ५९ ॥
सायंकाल (अर्थात् रात्रि में) और प्रातःकाल (अर्थात् दिन में) अन्न की पूजा करके (अर्थात् प्रसंसा करते हुए, और उसकी निन्दा न करते हुए भोजन करे ॥ ५९ ॥
न कदाचिद्रात्रौ नग्नः स्वपेत् ॥ ६० ॥
सुष्याद्रात्रौ न तु नग्नः स्वपेत् । तदेवं रात्रौ नग्नस्य स्वापप्रतिषेधो दिवा तु सर्वथेति । कदाचिद्ग्रहणादिदं लभ्यते । अन्यथा रात्रौ न नग्नः स्वपेदित्येव वाच्यं स्यात् ॥ ६० ॥
कभी भी रात्रि में नग्न होकर न सोए ॥ ६० ॥
स्नायाद्वा ॥ ६१ ॥
न नग्न इत्येव । नग्नो जलं नाववरेदिति स्मृत्यन्तरम् ॥ ६१ ॥
नग्न होकर स्नान भी न करे ॥ ६१ ॥
आनन्त्यादाचाराणां प्रतिपदपाठो न शक्य इति संक्षिप्याऽऽह—
यच्चाऽऽत्मवन्तो वृद्धाः सम्यग्विनीता दम्भलोभमोह-
वियुक्ता वेदविद आचक्षते तत्समाचरेत् ॥ ६२ ॥
आत्मवन्तो जितेन्द्रियाः । वृद्धाः परिणतवयसो यौवने विषयवश्य- तासंभवात् । सम्यग्विनीता गुरुभिः शिक्षिताः । दम्भो धर्मच्छलेन लोक- वञ्चनम् । लोभोऽन्यायेन परद्रव्यादित्सा । मोहोऽज्ञानं लोकविरुद्धज्ञानं वा तेन त्यक्ताः । वेदविदः पाठतश्चार्थतश्च वेदानां चोदितारः । अत्र वृद्धा इति विशेष्यम् । एवंभूता वृद्धा यदाचक्षते तत्कर्तव्यमिति । बहुवच- ननिर्देशाद्बहूनामैकमत्ये तद्भवति ॥ ६२ ॥
जितेन्द्रिय, वयोवृद्ध, भलीभाँति शिक्षा प्राप्त किये हुए, दम्भहीन, लोभरहित, अज्ञान से मुक्त तथा वेद के ज्ञाता व्यक्ति जैसा कहें उसके अनुसार आचरण करना चाहिए ॥ ६२ ॥
योगक्षेमार्थमीश्वरमधिगच्छेत् ॥ ६३ ॥
अलब्धस्य लाभो योगः । लब्धस्य परिपालनं क्षेमः । तदर्थमीश्वरं राजानमधिगच्छेत् । अधिशब्दप्रयोगादधिरैश्वर्य इत्यस्मादकार्पण्येन स्वतन्त्रो गच्छेदिति ॥ ६३ ॥
योग (न प्राप्त हुई वस्तु के लाभ) तथा क्षेम (प्राप्त वस्तु की रक्षा) के लिए राजा के निकट जाना चाहिए ॥ ६३ ॥
९० गौतमधर्मसूत्राणि
नान्यमन्यत्र देवगुरुधार्मिकेभ्यः ॥ ६४ ॥
अन्यं राजव्यतिरिक्तं योगक्षेमसमर्थमपि नाधिगच्छेदित्यनुवादः । देवा इन्द्रादयः । गुरवः पित्रादयः । धार्मिका धर्माचरणशीलाः । एतेभ्योऽन्यत्र । एतानविगच्छेद्वेति ॥ ६४ ॥
देवता, (पिता आदि) गुरुजन तथा धार्मिक लोगों के अतिरिक्त अन्य किसी के निकट (राजा को छोड़कर) योगक्षेम के लिए न जाए ॥ ६४ ॥
प्रभूतैधोदकयवसकुशमाल्योपनिष्क्रमणमार्यजनभूयिष्ठमनलससमृद्धं धार्मिकाधिष्ठितं निकेतनमावसितुं यतेत ॥ ६५ ॥
एधः काष्ठमुदकं स्नानपानयोग्यं यवसं तृणानि गवार्थम् । कुशाः प्रसिद्धाः । माल्यानि पुष्पाणि देवाद्यर्चनार्थम् । उपनिष्क्रम्यते यत्र तदुपनिष्क्रमणं बहिरवकाशः संचाराद्यर्थम् । एवमादीनि प्रभूतानि यत्र । आर्यास्त्रैवर्णिकास्त एव जनास्तैर्भूयिष्ठं व्याप्तम् । अलसाः कृत्येषु निरुद्यमास्तद्विपरीता अनलसास्तैः समृद्धम् । धार्मिका धर्मशीलास्तैर्विशिष्टाचारैरधिष्ठितम् । एवंभूतं निकेतनमावसितुं यतेत । एवंभूते स्थाने यत्नेनापि वसेदिति ॥ ६५ ॥
प्रचुर ईंधन, जल, (गौ आदि के खाने योग्य) घास, कुश, पुष्प, निष्क्रमण के योग्य स्थान वाले, आर्यों (द्विजों) से व्याप्त, उद्यमी (परिश्रमी, आलस्यहीन) व्यक्तियों से समृद्ध तथा धार्मिक पुरुषों द्वारा अधिष्ठित स्थान पर निवास करने का प्रयत्न करे ॥ ६५ ॥
प्रशस्तमङ्गल्यदेवतायतनचतुष्पदं प्रदक्षिणमावर्तेत ॥ ६६ ॥
निर्गमनप्रवेशादिषु यथा ते दक्षिणपार्श्वे भवन्ति तथा कुर्यादिति ॥ ६६ ॥
पूज्य, माङ्गलिक वस्तु, देवमन्दिर और चतुष्पथों को दाहिने करके प्रदक्षिणा करके चले ॥ ६६ ॥
मनसा वा तत्समग्रमाचारमनुपालयेदापत्कल्पः ॥ ६७ ॥
संभवे तु साक्षादनुष्ठानमेवेति ॥ ६७ ॥
आपत्काल में मन से ही उन आचारों का पालन करे ॥ ६७ ॥
सत्यधर्मा ॥ ६८ ॥
सत्यवचनस्वभावः । स्यादिति वक्ष्यमाणमपेक्ष्यते ॥ ६८ ॥
सत्यवचन और सत्यस्वभाव वाला हो ॥ ६८ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ९१
आर्यवृत्तः ॥ ६९ ॥
पूर्वभाषी प्रियंवद इत्याचार्याणां वृत्तमिव वृत्तं यस्य स तथा । उष्ट्रमुखवन्मध्यमपदलोपः ॥ ६९ ॥
आर्यों की वृत्ति का आचरण करे ॥ ६९ ॥
शिष्टाध्यापकः ॥ ७० ॥
सतामध्यापयिता न त्वयोग्यानाम् ॥ ७० ॥
सज्जन को (अर्थात् योग्य व्यक्ति को) ही शिक्षा प्रदान करे ॥ ७० ॥
शौचशिष्टः ॥ ७१ ॥
शिष्टं शास्त्रविहितं शौचं यस्यास्ति स तथा । निष्ठान्तस्य परनिपातः । शास्त्रविहितेन शौचेन तद्वान् । शौचस्य पुनः पुनर्वचनं तात्पर्यार्थम् ॥ ७१ ॥
शास्त्रविहित शौच नियमों का पालन करे ॥ ७१ ॥
श्रुतिनिरतः स्यात् ॥ ७२ ॥
वेदाभ्यासरतः ॥ ७२ ॥
वेद के अध्ययन में रत रहे ॥ ७२ ॥
नित्यमहिंस्रो मृदुर्दृढकारी दमदानशीलः ॥ ७३ ॥
नित्यं निमित्ते सत्यप्यहिंस्रोऽहिंसाशीलः । मृदुः कृतापराधेऽपि सहकः । दृढकारी प्रारब्धस्य समापयिता न प्राक्रमिकः । दम इन्द्रियनिग्रहः । दानं संविभागः । तच्छीलः स्यादिति सर्वत्रापेक्ष्यते ॥ ७३ ॥
नित्य अहिंसाशील, मृदु अर्थात् सहिष्णु या क्षमाशील, दृढ निश्चयी, संयमी और दानशील हो ॥ ७३ ॥
एवमाचारो मातापितरौ पूर्वापरांश्च सम्बन्धान्दुरितेभ्यो मोक्षयिष्यन्स्नातकः शश्वद्ब्रह्मलोकान्न च्यवते न च्यवते ॥७४॥
एवमुक्तप्रकार आचारो यस्य स एवमाचारः । एवंभूतः स्नातको मातापितरौ पूर्वसंबन्धाः पितामहादयः । अपरसंबन्धाः पुत्रादयः । तांश्च पूर्वापरसम्बन्धान्दुरितेभ्यः पापेभ्यो मोक्षयिष्यन्ये पूर्वं भूतास्तांस्तदैव नरकादिभ्यो मोचयति ये तु भविष्यन्तः पुत्रादयस्तांश्च मोक्षयिष्यन् । सप्रत्ययस्यार्थो मृग्यः (?) । मोचयिष्यन्भवति । स एवंभूतः स्नातकः
९२ | गौतमधर्मसूत्राणि
शश्वद्बहुकालं ब्रह्मलोकान्न च्यवते । द्विरुक्तिरध्यायसमाप्त्यर्था । पुनः स्नातकग्रहणं स्नातकधर्माणामेवैतत्फलं न गृहस्थधर्मसहितानामित्येवमर्थम् ॥ ७४ ॥
इस प्रकार आचरण करने वाला स्नातक अपने माता-पिता, उनके पूर्व के पितामह, मातामह आदि और बाद के पुत्र पौत्र आदि संबन्धियों को पापों से मुक्त करता हुआ चिरकाल तक ब्रह्मलोक से च्युत नहीं होता है (अर्थात् अनन्त काल तक ब्रह्मलोक में निवास करता है ) ॥ ७४ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
नवमोऽध्यायः ॥ ६ ॥
प्रथमः प्रश्नः समाप्तः ।
अथ द्वितीये प्रश्ने प्रथमोऽध्यायः
उक्ताः प्रायश आश्रमधर्माः । अथ वर्णधर्मानाह—
द्विजातीनामध्ययनमिज्या दानम् ॥ १ ॥
यथासंख्यमत्र न भवति । उत्तरत्राधिकग्रहणात्तत्रैव वक्तव्यं भविष्यति । अध्ययनं वेदग्रहणाभ्यासरूपम् । इज्या यागो देवपितृपूजा । दानं पात्रे द्रव्यत्यागः । द्विजातीनामिति वचनाद्यदा द्विजातयः संपन्नाः कृतोपनयनास्तत आरभ्यैते धर्माः । तेनानुपनीतानां दानेऽप्यधिकारो नास्तीति केचित् । नेति च वयम् । द्विजातीनामित्युपलक्षणं येषां द्विजातिजन्म तेषामिति । तेनानुपनीतस्याप्यर्थवतो हितैषिभिः प्रवर्तितस्य दानं भवत्येव ॥ १ ॥
द्विजातियों ( उपनीत ब्राह्मण, क्षत्रिय और वैश्य ) के धर्म ( वेद के ग्रहण एवं अभ्यास के रूप में ) अध्ययन, यजन तथा दान हैं ॥ १ ॥
ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः ॥ २ ॥
प्रवचनमध्यापनम् । याजनमार्त्विज्यम् । प्रतिग्रहः प्रसिद्धः । एते ब्राह्मणस्याधिकाः पूर्वेभ्योऽध्ययनादिभ्यः । ते चामी च समुच्चियता इत्युक्तं भवति । अत्राप्यनुपनीतस्यापि प्रतिग्रहो भवति । याजनाध्यापने त्वसम्भवान्न भवतः । ब्राह्मणस्य प्रवचनयाजनप्रतिग्रहा इत्येव सिद्धेऽधिकग्रहणं पूर्वत्र यथासंख्यं मा भूदिति पूर्वे तावदवस्थिताः ॥ २ ॥
अध्यापन, यज्ञ कराना और दान लेना—ये तीन धर्म अन्य द्विजातियों ( उपनीत क्षत्रिय और वैश्य ) की अपेक्षा ब्राह्मण के अधिक होते हैं ॥ २ ॥
पूर्वेषु नियमस्तु ॥ ३ ॥
नियमोऽवश्यकर्तव्यता । पूर्वाण्यध्ययनादीन्यवश्यकर्तव्यानि । अकुर्वन्प्रत्यवैति कुर्वंश्चाभ्युदेति । प्रवचनादीनि तु वृत्त्यर्थानि । अतोऽकरणे न प्रत्यवायः करणे नाभ्युदयः ॥ ३ ॥
इनमें पूर्ववर्ती अध्ययन, यजन और दान तो ( ब्राह्मण के ) अनिवार्य कर्तव्य होते हैं । ( इनके न करने से प्रत्यवाय दोष होता है और करने से अभ्युदय की सिद्धि होती है; शेष तीन अध्यापन, याजन और दानग्रहण वृत्ति के लिये निर्धारित कर्म हैं अतः अनिवार्य नहीं होते ) ॥ ३ ॥
९४ | गौतमधर्मसूत्राणि
आचार्यज्ञातिप्रियगुरुधनविद्यानियमेषु ब्रह्मणः संप्रदानमन्यत्र यथोक्तात् ॥ ४ ॥
ब्रह्म वेदः। तस्य संप्रदानं सम्यक्प्रदानम्। अनुज्ञात उपविशेदित्यारभ्य शुश्रूषवोऽध्याप्या इत्युक्तं स यथोक्तो नियमः। तस्मादन्यत्र विनाऽपीति तेनाऽऽचार्यादिभ्यो ब्रह्म प्रदेयमित्युच्यते। आचार्य उक्तः। ज्ञातयो भ्रातृपितृव्यादयः। प्रियः सखा। गुरवो मातुलादयः। एतेषु ब्रह्म सम्यक्प्रदेयम्। तथा धनविद्यानियमेषु। धनेन विद्यायाः परिवर्तनं धननियमः। विद्यान्तरेण परिवर्तनं विद्यानियमः। तेष्वपि ब्रह्म संप्रदेयम्। धनविद्यानियमोऽपि योग्यविषय एव। शिष्टाध्यापक इत्युक्तत्वात्। न च तस्याप्ययमपवादः। यथावद्ग्रहणविधिनाऽध्ययनमुक्तं (क्तं त)स्यैवायमपवाद इति ॥ ४ ॥
आचार्य, बन्धु बान्धव (भाई, पितृव्य आदि), प्रियजन, मामा आदि गुरुजनों को तथा धन और विद्या के बदले में वेद का सम्यक् अध्यापन किया जा सकता है; इसके अतिरिक्त जैसा पहले कहा जा चुका है उसके अनुसार ही वेद की शिक्षा देनी चाहिए ॥ ४ ॥
कृषिवाणिज्ये वाऽस्वयंकृते ॥ ५ ॥
कृषिः कर्षणेन सस्योत्पादनं वाणिज्या क्रयविक्रयव्यवहारः। ते च ब्राह्मणस्याधिके यद्यस्वयंकृते। अन्येन कारयितुं शक्येते ॥ ५ ॥
अथवा यदि खेती और वाणिज्य (क्रय-विक्रय) ब्राह्मण स्वयं (अपने हाथों से) न करके किसी दूसरे द्वारा कराता है तो वह इन कर्मों को भी कर सकता है ॥ ५ ॥
कुसीदं च ॥ ६ ॥
कुसीदमुपचयार्थो धनप्रयोगः। तदप्यस्वयंकृतं चेद्ब्राह्मणस्याधिकम् ॥ ६ ॥
व्याज पर धन देने का कार्य भी दूसरों के द्वारा ब्राह्मण कर सकता है ॥ ६ ॥
राज्ञोऽधिकं रक्षणं सर्वभूतानाम् ॥ ७ ॥
राज्ञोऽभिषिक्तस्य सर्वभूतानां रक्षणमधिकम्। सर्वग्रहणात्स्थावरादीनामप्यश्वत्थादीनां छेदननिरोधेन ॥ ७ ॥
अभिषिक्त राजा का (अन्य द्विजातियों—ब्राह्मण और वैश्य की अपेक्षा अधिक धर्म है सभी प्राणियों की (और स्थावर वृक्षों की भी) रक्षा का कार्य ॥ ७ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ९५
न्याय्यदण्डत्वम् ॥ ८ ॥
न्यायादनपेतो न्याय्यः शास्त्राविरुद्धो दण्डो यस्य तद्भावो न्याय्यदण्डत्वम् । न्यायदण्डत्वमित्यपि पाठ एष एवार्थः । स च राज्ञो धर्मः । रागद्वेषादिना न न्यूनाधिकदण्डः स्यादिति ॥ ८ ॥
न्यायपूर्वक (अर्थात् शास्त्रानुसार) दण्ड देना भी राजा का धर्म है ॥ ८ ॥
बिभृयाद्ब्राह्मणाञ्श्रोत्रियान् ॥ ९ ॥
श्रोत्रिया अधीतवेदस्तान्ब्राह्मणानन्नादिदानेन बिभृयात् ॥ ९ ॥
राजा को श्रोत्रिय (वेद के विद्वान्) ब्राह्मणों का भरण पोषण करना चाहिये ॥ ९ ॥
निरुत्साहांश्च ब्राह्मणान् ॥ १० ॥
जीवनार्थमुत्साहं कर्तुमसमर्था निरुत्साहास्तान्ब्राह्मणानपि बिभृयात् । किं पुनर्ब्राह्मणान्। पूर्वसूत्रे सर्जने समर्थानपि श्रोत्रियान्सममाहूय बिभृयादिति ॥ १० ॥
जीविका के लिए उद्योग करने में असमर्थ ब्राह्मणों का भी पालन-पोषण (राजा को) करना चाहिए ॥ १० ॥
अकरांश्च ॥ ११ ॥
ये पूर्वैर्दत्ता अकरा ब्राह्मणादिभ्यस्तांश्च यथापूर्वं बिभृयाद्ग्राहकादिनिरासेन । स्वयं च नापूर्व करमुत्पादयेदिति ॥ ११ ॥
जो ब्राह्मण पहले कर से मुक्त किये गये हों उनका भी पालन करे अर्थात् उनसे कर न ले ॥ ११ ॥
उपकुर्वाणांश्च ॥ १२ ॥
अधीयाना ब्रह्मचारिण उपकुर्वाणास्तांश्च बिभृयादन्नादिदानेन । यद्यर्थिनः स्वयं जीवितवन्तो वन्दसूकरादिव्यावर्तनेन । अपर आह—उपकुर्वाणा लोकोपकुर्वाणा वैद्यादय इति ॥ १२ ॥
अध्ययनरत ब्रह्मचारियों का भी पोषण करे अथवा लोकोपकार करने वाले वैद्यों का भी पोषण करे ॥ १२ ॥
योगश्च विजये ॥ १३ ॥
योग उपायो विजयविषयश्च योगः कार्यः । अयमपि राज्ञोऽधिको धर्म इति ॥ १३ ॥
| ९६ | गौतमधर्मसूत्राणि |
|---|
विजय के लिए उपाय करे यह भी अन्य द्विजातियों की अपेक्षा राजा का एक अधिक धर्म है ॥ १३ ॥
भये विशेषेण ॥ १४ ॥
अन्याभिभवादिनिमित्ते विशेषेण योगः कार्यः ॥ १४ ॥
दूसरे शत्रु आदि से भय होने पर विशेष रूप से उपाय करे ॥ १४ ॥
चर्या च रथधनुर्भ्याम् ॥ १५ ॥
चरणं चर्या । बहिःप्रदेशे चरन्नरथमारूढो धनुर्हस्तश्च चरेत् । रथग्रहणं हस्त्यश्वादेरुपलक्षणं धनुर्ग्रहणं च खड्गादेः ॥ १५ ॥
रथ पर आरूढ होकर और हाथ में धनुष लेकर विचरण करे ॥ १५ ॥
सङ्ग्रामे संस्थानमनिवृत्तिश्च ॥ १६ ॥
संग्रामो युद्धं तत्र संस्थानं प्राणात्ययः । निवृत्तिः पलायनं तदभावोऽनिवृत्तिः । एतौ च राज्ञोऽधिकौ धर्मौ ॥ १६ ॥
युद्ध में सम्मुख स्थित रहना ( तथा प्राण त्याग देना ) और पलायन न करना भी ( अन्य द्विजातियों की अपेक्षा राजा के अधिक धर्म हैं ) ॥ १६ ॥
न दोषो हिंसायामाहवे ॥ १७ ॥
यत्र परस्परमाह्वयन्ते स आहवः । तादृशे युद्धे शत्रूणां हिंसायामपि न दोषः । नित्यमहिंस्र इत्यस्यायमपवादः ॥ १७ ॥
युद्ध में शत्रुओं की हिंसा करने में कोई दोष नहीं होता ॥ १७ ॥
अन्यत्र व्यश्वसारथ्यायुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षाधिरूढदूतगोब्राह्मणवादिभ्यः ॥ १८ ॥
विशब्दश्च त्रिभिः संबध्यते । व्यश्वो विसारथिर्व्यायुध इति यस्याश्वो हतः स व्यश्वः । यस्य सारथिर्हतः स विसारथिः । यस्याऽऽयुधं कृत्तं पतितं वा स व्यायुधः । कृताञ्जलिर्भयेन । प्रकीर्णकेशः केशानपि नियन्तुमक्षमः । पराङ्मुखो भयेन पृष्ठीकृत्य पलायमानः । उपविष्टः पलायितुमप्यसमर्थ आसीनः । स्थलवृक्षाधिरूढः । स्थलमुन्नतप्रदेशस्तं वृक्षं वाऽऽरूढः । दूतो वार्त्ताहरः । गौरस्मि ब्राह्मणोऽस्मीति ये वदन्ति ते गोब्राह्मणवादिनः । एतेभ्योऽन्यत्राऽऽहवे हिंसायां न दोषः । एतेषु दोष इति ॥ १८ ॥
बिना घोड़े वाले, बिना सारथि वाले, बिना अस्त्रों वाले, ( भय से ) हाथ जोड़ने वाले, बिखरे हुए केशों वाले ( अर्थात् जो केशों को भी संभालने में