भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 158, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 158

अथ द्वितीये प्रश्ने प्रथमोऽध्यायः

उक्ताः प्रायश आश्रमधर्माः । अथ वर्णधर्मानाह—

द्विजातीनामध्ययनमिज्या दानम् ॥ १ ॥

यथासंख्यमत्र न भवति । उत्तरत्राधिकग्रहणात्तत्रैव वक्तव्यं भविष्यति । अध्ययनं वेदग्रहणाभ्यासरूपम् । इज्या यागो देवपितृपूजा । दानं पात्रे द्रव्यत्यागः । द्विजातीनामिति वचनाद्यदा द्विजातयः संपन्नाः कृतोपनयनास्तत आरभ्यैते धर्माः । तेनानुपनीतानां दानेऽप्यधिकारो नास्तीति केचित् । नेति च वयम् । द्विजातीनामित्युपलक्षणं येषां द्विजातिजन्म तेषामिति । तेनानुपनीतस्याप्यर्थवतो हितैषिभिः प्रवर्तितस्य दानं भवत्येव ॥ १ ॥

द्विजातियों ( उपनीत ब्राह्मण, क्षत्रिय और वैश्य ) के धर्म ( वेद के ग्रहण एवं अभ्यास के रूप में ) अध्ययन, यजन तथा दान हैं ॥ १ ॥

ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः ॥ २ ॥

प्रवचनमध्यापनम् । याजनमार्त्विज्यम् । प्रतिग्रहः प्रसिद्धः । एते ब्राह्मणस्याधिकाः पूर्वेभ्योऽध्ययनादिभ्यः । ते चामी च समुच्चियता इत्युक्तं भवति । अत्राप्यनुपनीतस्यापि प्रतिग्रहो भवति । याजनाध्यापने त्वसम्भवान्न भवतः । ब्राह्मणस्य प्रवचनयाजनप्रतिग्रहा इत्येव सिद्धेऽधिकग्रहणं पूर्वत्र यथासंख्यं मा भूदिति पूर्वे तावदवस्थिताः ॥ २ ॥

अध्यापन, यज्ञ कराना और दान लेना—ये तीन धर्म अन्य द्विजातियों ( उपनीत क्षत्रिय और वैश्य ) की अपेक्षा ब्राह्मण के अधिक होते हैं ॥ २ ॥

पूर्वेषु नियमस्तु ॥ ३ ॥

नियमोऽवश्यकर्तव्यता । पूर्वाण्यध्ययनादीन्यवश्यकर्तव्यानि । अकुर्वन्प्रत्यवैति कुर्वंश्चाभ्युदेति । प्रवचनादीनि तु वृत्त्यर्थानि । अतोऽकरणे न प्रत्यवायः करणे नाभ्युदयः ॥ ३ ॥

इनमें पूर्ववर्ती अध्ययन, यजन और दान तो ( ब्राह्मण के ) अनिवार्य कर्तव्य होते हैं । ( इनके न करने से प्रत्यवाय दोष होता है और करने से अभ्युदय की सिद्धि होती है; शेष तीन अध्यापन, याजन और दानग्रहण वृत्ति के लिये निर्धारित कर्म हैं अतः अनिवार्य नहीं होते ) ॥ ३ ॥