गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 148, कुल 360 में से
संदर्भ में पढ़ेंसानुवाद-मिताक्षरावृत्तिसहितानि ८३
रजस्वला स्त्री से संभोग न करे ॥ ३० ॥
न चैनां श्लिष्येन्न कन्याम् ॥ ३१ ॥
एनां रजस्वलां कन्यामनूढामपि न श्लिष्येन्नाऽऽलिङ्गेत् ॥ ३१ ॥
इस रजस्वला स्त्री और अविवाहिता कन्या का आलिङ्गन न करे ॥ ३१ ॥
अग्निमुखोपधमनविगृह्यवादबहिर्गन्धमाल्यधारणपापीयसा-
वलेखनभार्यासहभोजनाञ्जन्त्यवेक्षणकुद्वारप्रवेशनपादधावना-
सन्दीस्थभोजननदीबाहुतरणवृक्षविषमारोहणावरोहणप्राणव्याय-
च्छनानि वर्जयेत् ॥ ३२ ॥
उपधमनमुपध्मानं नाग्नि मुखेनोपधमेन्न ज्वलयेत् । विगृह्यवादो वाक्कलहः । गन्धमाल्ययोर्बहिर्धारणं प्रकाशधारणमिति । अनाविःस्रगनुलेपनः स्यादित्यापस्तम्बः । पापीयसावलेखनमशुचिना काष्ठादिना शिरःप्रभृतेः कण्डूयनं तृतीयाया अलुक्छान्दसः । भार्यया सह भोजनं भार्यया सहैकस्मिन्भाजने भोजनम् । केषुचिद्देशेष्वाचारात्प्राप्तौ सत्यां निषेधः । अन्ये त्वेकस्मिन्काले भोजनं सहभोजनमिच्छन्ति । अञ्जन्त्यवेक्षणम् । अञ्जन्ती तैलाभ्यङ्गं कुर्वत्यञ्जनादिभिरलंक्रीयमाणा वा तस्या अवेक्षणं तच्च भार्याविषयमित्येके स्त्रीमात्रविषयमित्यन्ये । कुद्वारप्रवेशनं द्वारव्यतिरिक्तप्रदेशेन देवालयगृहादेः प्रवेशनमप्रसिद्धमार्गेण नगरग्रामादेः प्रवेशनमिति । यथा चाऽऽपस्तम्बः—न कुमृत्य ग्रामं प्रविशेद्यदि प्रविशेन्नमो रुद्राय वास्तोष्पतय इत्येतामृचं जपेदन्यां वा रौद्रीमिति । पादपादधावनं पादेन पादप्रक्षालनम् । आसन्दोस्थभाजनम् , आसन्दी पीठिका तत्रस्थस्यान्नस्य भोजनमासन्दीस्थभोजनम् । यद्वा यत्राऽऽसीनो भुङ्क्ते तत्राऽऽसने भोजनपात्रं निधाय यद्भोजनं तद्वा । नदीबाहुतरणं बाहुभ्यां नद्या स्तरणं पारगमनम् । बाहुतरणात्प्लवादौ न दोषः । नदीग्रहणं तडागादीनामप्युपलक्षणम् । वृक्षविषमारोहणावरोहणे वृक्षस्याऽऽरोहणं विषमस्य कूपादेरवरोहणं च । वृक्षविषमग्रहणेनात्युन्नतनिम्नस्थलं लक्ष्यते । प्राणव्यायच्छनं प्राणोपरोध्युल्लङ्घनजलयन्त्राद्यभिरोहणम् । एतान्यग्निमुखोपधमनादीनि वर्जयेत् ॥ ३२ ॥
मुँह से अग्नि जलाना, वाक्कलह, गन्ध और माला को बाहर धारण करना, अपवित्र काष्ठ आदि से शिर आदि खुजलाना, पत्नी के साथ एक ही थाली में या एक ही समय पर भोजन करना, अञ्जन ( स्नान या शृङ्गार ) करती हुई स्त्री को निहारना, मन्दिर, घर या ग्राम में प्रसिद्ध मार्ग को छोड़कर किसी अन्य