भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 161, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 161
९६गौतमधर्मसूत्राणि

विजय के लिए उपाय करे यह भी अन्य द्विजातियों की अपेक्षा राजा का एक अधिक धर्म है ॥ १३ ॥

भये विशेषेण ॥ १४ ॥

अन्याभिभवादिनिमित्ते विशेषेण योगः कार्यः ॥ १४ ॥

दूसरे शत्रु आदि से भय होने पर विशेष रूप से उपाय करे ॥ १४ ॥

चर्या च रथधनुर्भ्याम् ॥ १५ ॥

चरणं चर्या । बहिःप्रदेशे चरन्नरथमारूढो धनुर्हस्तश्च चरेत् । रथग्रहणं हस्त्यश्वादेरुपलक्षणं धनुर्ग्रहणं च खड्गादेः ॥ १५ ॥

रथ पर आरूढ होकर और हाथ में धनुष लेकर विचरण करे ॥ १५ ॥

सङ्ग्रामे संस्थानमनिवृत्तिश्च ॥ १६ ॥

संग्रामो युद्धं तत्र संस्थानं प्राणात्ययः । निवृत्तिः पलायनं तदभावोऽनिवृत्तिः । एतौ च राज्ञोऽधिकौ धर्मौ ॥ १६ ॥

युद्ध में सम्मुख स्थित रहना ( तथा प्राण त्याग देना ) और पलायन न करना भी ( अन्य द्विजातियों की अपेक्षा राजा के अधिक धर्म हैं ) ॥ १६ ॥

न दोषो हिंसायामाहवे ॥ १७ ॥

यत्र परस्परमाह्वयन्ते स आहवः । तादृशे युद्धे शत्रूणां हिंसायामपि न दोषः । नित्यमहिंस्र इत्यस्यायमपवादः ॥ १७ ॥

युद्ध में शत्रुओं की हिंसा करने में कोई दोष नहीं होता ॥ १७ ॥

अन्यत्र व्यश्वसारथ्यायुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षाधिरूढदूतगोब्राह्मणवादिभ्यः ॥ १८ ॥

विशब्दश्च त्रिभिः संबध्यते । व्यश्वो विसारथिर्व्यायुध इति यस्याश्वो हतः स व्यश्वः । यस्य सारथिर्हतः स विसारथिः । यस्याऽऽयुधं कृत्तं पतितं वा स व्यायुधः । कृताञ्जलिर्भयेन । प्रकीर्णकेशः केशानपि नियन्तुमक्षमः । पराङ्मुखो भयेन पृष्ठीकृत्य पलायमानः । उपविष्टः पलायितुमप्यसमर्थ आसीनः । स्थलवृक्षाधिरूढः । स्थलमुन्नतप्रदेशस्तं वृक्षं वाऽऽरूढः । दूतो वार्त्ताहरः । गौरस्मि ब्राह्मणोऽस्मीति ये वदन्ति ते गोब्राह्मणवादिनः । एतेभ्योऽन्यत्राऽऽहवे हिंसायां न दोषः । एतेषु दोष इति ॥ १८ ॥

बिना घोड़े वाले, बिना सारथि वाले, बिना अस्त्रों वाले, ( भय से ) हाथ जोड़ने वाले, बिखरे हुए केशों वाले ( अर्थात् जो केशों को भी संभालने में