गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 206, कुल 360 में से
संदर्भ में पढ़ेंअथ पञ्चमोऽध्यायः
अथाशौचनिर्णयः ।
शावमाशौचं दशरात्रमन्नृत्विग्दीक्षितब्रह्मचारिणां सपिण्डानाम् ॥ १ ॥
शवनिमित्तं शावम् । अशुचिभाव आशौचम् । दशरात्रं दशाहोरात्रं भवति सपिण्डनामृत्विगादिवर्जितानाम् । ऋत्विग्याजकः कर्मणि वर्तमानः । दीक्षितः कृतदीक्षणीयः कर्मणि वर्तमानः । ब्रह्मचारी प्रसिद्धः । आऽवभृथं पूर्वयोः । आ ब्रह्मचर्यपर्यन्तं परस्य । किं पुनरिदमाशौचलक्षणम् । कर्मण्यनधिकारोऽभोज्यान्नताऽस्पृश्यता दानादिष्वनधिकारिता ।
अत्र मनुः—
उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ।
दानं प्रतिग्रहो यज्ञः स्वाध्यायश्च निवर्तते ॥
न स्पृशेयुरनासन्नाः प्रेतस्याऽऽसन्नबान्धवान् । इति च ।
अङ्गिराः—
सूतके तु यदा विप्रो ब्रह्मचारी विशेषतः ।
पिबेत्पानीयमज्ञानात्समश्नीयात्स्पृशेत वा ॥
पानीयपाने कुर्वीत पञ्चगव्यस्य भक्षणम् ।
त्रिरात्रं भोजने प्रोक्तं स्पृष्ट्वा स्नानं विधीयते ॥ इति ॥
याज्ञवल्क्यः— उदक्याशौचिभिः स्नायात्संस्पृष्टस्तैरुपस्पृशेत् । इति ।
संवर्तः— अस्थिसंचयनादूर्ध्वमङ्गस्पर्शो विधीयते ॥ इति ।
व्याघ्रः—
मरणादेव कर्तव्यं संयोगो यस्य नाग्निभिः ।
दहनादेव कर्तव्यं यस्य वैतानिको विधिः ॥ इति ।
शङ्खः—
चतुर्थे दशरात्रं स्यात्षण्णिशः पुंसि पञ्चमे ।
षष्ठे चतुरहाच्छुद्धिः सप्तमे तु दिनत्रयम् ॥ इति ।
एतत्सर्वं निर्गुणविषयम् । गुणवद्विषये पराशरः—
एकाहाच्छुध्यते विप्रो योऽग्निवेदसमन्वितः ।
त्र्यहात्केवलवेदस्तु निर्गुणो दशभिर्दिनैः ॥ इति ।
बृहस्पतिः—
त्रिरात्रेण विशुध्येत विप्रो वेदाग्निसंयुतः ।
पञ्चाहेनाग्निहीनस्तु दशाहाद् ब्राह्मणब्रुवः ॥ इति ।
अत्र ब्रह्मचारिग्रहणं गृहस्थव्यतिरिक्तानामाश्रमाणांमुपलक्षणार्थम् ।
अत्र बृहस्पतिः—