गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 221, कुल 360 में से
संदर्भ में पढ़ें१५६ गौतमधर्मसूत्राणि
आश्वलायन—अदन्तजाते परिजात एकाहम्। इति। आपस्तम्बस्तु—मातुश्च योनिसंबन्धेभ्यः पितुश्चा सप्तमात्पुरुषाद्यावत्ता वा संबन्धो ज्ञायते तेषां प्रेतेषूदकोपस्पर्शनं गर्भान्परिहाप्यापरिसंवत्सरान्मातापितरावेव तेषु हर्त्तारश्चेति। एतेषां देशकुलधर्मापेक्षया व्यवस्था। अत्र कन्याविषय आपस्तम्बः—
अप्रौढायां तु कन्यायां सद्यःशौचं विधीयते। इति।
अप्रौढाऽकृतचूडा।
[याज्ञवल्क्यः—] अहस्त्वदत्तकन्यासु बालेषु च विशोधनम्॥ इति। इदं चौलादूर्ध्वम्। व्याघ्र आह—
बाले मृते सपिण्डानां सद्यःशौचं विधीयते।
दशाहेनैव दंपत्योः सोदराणां तथैव च॥ इति।
इदं तु सूतकं दशाहान्तर्मरणविषयम् तथा च—
अन्तर्दशाहे जातस्य शिशोर्निष्क्रमणं यदि।
सूतकेनैव शुद्धिः स्यात्पित्रोः शातातपोऽब्रवीत्॥ ४२॥
जिसका चूडान्त संस्कार न हुआ हो ऐसे बालक, परदेश गये हुए की, नैष्ठिक या वानप्रस्थ परिव्राजक तथा असपिण्ड की मृत्यु पर उनकी जातिवाले तत्काल स्नान द्वारा शुद्ध हो जाते हैं॥ ४२॥
राज्ञां च कार्यविरोधात् ॥ ४३ ॥
राज्ञश्च सद्यःशौचं कार्यविरोधात्। कार्यं प्रजारक्षणादि। बहुवचननिर्देशाच्चे चान्येऽमात्यादयस्तत्कार्यवन्तस्तेषामपि। यस्य चेच्छति पार्थिव इति मनुः॥ ४३॥
राजकार्य में विघ्न न हो अतः राजा सदैव पवित्र होते हैं (अमात्य आदि भी)॥ ४३॥
ब्राह्मणस्य च स्वाध्यायनिवृत्त्यर्थं स्वाध्यायनिवृत्त्यर्थम् ॥४४॥
ब्राह्मणस्य च सद्यःशौचं स्वाध्यायनिवृत्तिर्मा भूदिति। बहुशिष्यस्याध्यापयत इदमुक्तम्। [अभ्यासोऽध्यायसमाप्त्यर्थः] इत्याशौचम्॥४४॥
इति श्रीगौतमयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
द्वितीयप्रश्ने पञ्चमोऽध्यायः॥ ५॥
ब्राह्मण भी सदैव पवित्र रहता है जिससे उसके दैनिक अध्यवसाय में विघ्न न हो पड़े॥ ४४॥
द्वितीयप्रश्ने पञ्चमोऽध्यायः समाप्तः।