भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 235, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 235

अथ सप्तमोऽध्यायः

श्रावणादि वार्षिकं प्रोष्ठपदीं वोपाकृत्याधीयीत च्छन्दांसि ॥ १ ॥

श्रवणेन युक्ता पौर्णमासो श्रवणा । नक्षत्रेण युक्तः काल इत्युक्तस्याणो लुबविशेष इति लुप् । युक्तवद्भावस्तु न भवति । विभाषा फाल्गुनीश्रवणेति निर्देशात् । श्रावणीत्यपि भवति । पौर्णमास्यां हि लुबविशेष इति न भवति । फाल्गुनी कार्तिकी चैत्रीति निर्देशात् । श्रवणशब्दे तूभयं भवतीति ।

मेषादिस्थे सवितरि यो यो दर्शः प्रवर्तते ।
चान्द्रमासास्तत्तदन्ताश्चैत्राद्या द्वादश स्मृताः ॥
तेषु या या पौर्णमासी सा सा चैत्र्यादिका स्मृता ।
कादाचित्केन योगेन नक्षत्रस्येति निर्णयः ॥

तदेवं सिंहस्थे सवितरि याऽमावास्या तदन्ते चान्द्रमसे मासे पौर्णमासी सा श्रवणा श्रावणीति चोच्यते । श्रवणयोगस्तु भवतु मा वा भूत् । एतेन प्रोष्ठपदी व्याख्याता । प्रोष्ठपदीमित्यधिकरणे द्वितीया । अत्यन्तसंयोगे वा कथंचित् । श्रवणायां प्रौष्ठपद्यां वा पौर्णमास्यामुपाकृत्योपाकर्माख्यं कर्म यथागृह्यं कृत्वा तदा च्छन्दांसि मन्त्रब्राह्मणलक्षणान्यधीयीत । आचार्योऽध्यापयेच्छिष्या अधीयीरन् । तदिदमध्ययनं वार्षिकमित्याचक्षति वर्षतौ प्रतिसंवत्सरं वा भवतीति । अध्यापनमप्यात्मापेक्षयाऽध्ययनं पारायणादिवत् । शिष्यापेक्षया त्वध्यापनम् ॥ १ ॥

श्रावण की पूर्णिमा (या श्रवण से युक्त पौर्णमासी) को वेदाध्ययन आरम्भ करने की वार्षिक तिथि होती है अथवा भाद्रपद की पूर्णिमा को उपाकर्म करके वेदाध्ययन प्रारम्भ करे ॥ १ ॥

कियन्तं कालमधीयीत—

अर्धपञ्चमान्मासान्पञ्च दक्षिणायनं वा ॥ २ ॥

अर्धं पञ्चमं येषां तानर्धपञ्चमानर्धाधिकांश्चतुरो मासान्पूर्णांन्वा पञ्च मासान्यावद्वा दक्षिणायनम् । एवमधीयानः ॥ २ ॥

साढ़े चार महीने अथवा पूरे पाँच महीने अथवा जब तक सूर्य दक्षिणायन रहे तब तक (अध्ययन करे) ॥ २ ॥