भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 236, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 236

सानुवाद-मिताक्षरावृत्तिसहितानि १६९

ब्रह्मचार्य्युत्सृष्टलोमा न मांसं भुञ्जीत ॥ ३ ॥

ब्रह्मचारी भवेत्स्त्रीसंगं वर्जयेत् । उत्सृष्टलोमा न रूढश्मश्रुः । अकस्मादित्यत्रोक्तं लोमकर्म तदुत्सृष्टं येन स उत्सृष्टलोमा । ए ॰भूतो भवेन्न मांसं भक्षयेत् । अयमध्यापयितुरुपदेशः । ब्रह्मचारिणः प्राप्त्यभावात् । आपस्तम्बोऽप्याह-प्रवचनयुक्तो वर्षाशरदं मैथुनं वर्जयेदिति । यश्च केवलानि व्रतानि पारं नीत्वा जायामुपयम्य पश्चादधीते सोऽप्येवं तस्यात्र ग्रहणार्थमप्येवम् । आश्वलायनोऽप्याह—समावृत्तो ब्रह्मचारिकल्पेनेति । तत्र त्वृतुगमनं पाक्षिकमभ्युपगतम् । यथाऽऽह जायोपेयेत्येके प्राजापत्यं तदिति ॥ ३ ॥

( इस अध्ययन काल में ) ब्रह्मचारी रहे, क्षौरकर्म न करावे और न मांस का भक्षण करे ॥ ३ ॥

द्वैमास्यो वा नियमः ॥ ४ ॥

द्वौ मासौ भूतभाविनौ वा द्विमास्यः । मासाद्वयसि यत्खञौ । द्विगोर्यबवयस्यपि प्रयुज्यते । स एव द्वैमास्यः । अयं ब्रह्मचर्यादिनियमो मासद्वयं वा भवति । शक्त्यपेक्षो विकल्पः ॥ ४ ॥

अथवा इस नियम का पालन दो मास तक करे ॥ ४ ॥

अथानध्याया उच्यन्ते—

नाधीयीत वायौ दिवा पांसुहरे ॥ ५ ॥

पांसूनुद्धरतीति पांसुहरः । वायौ दिवा पांसुहरे वाति सति नाधीयीत अपांसुहरे न दोषः । पांसुहरेऽपि रात्रौ न दोषः ॥ ५ ॥

दिन में धूलभरी वायु बहने पर अध्ययन नहीं करना चाहिए ॥ ५ ॥

कर्णश्राविणि नक्तम् ॥ ६ ॥

व्यत्ययेनायं कर्मणि कर्तृप्रत्ययः । कर्णाभ्यां श्रूयत इति कर्णश्रावी । एवं भूते महाघोषे वायौ वाति सति नक्तं नाधीयीत ॥ ६ ॥

प्रबल वायु के चलने की ध्वनि सुनाई पड़ने पर रात्रि को अध्ययन न करे ॥ ६ ॥

वाणभेरीमृदङ्गगर्तार्त्तशब्देषु ॥ ७ ॥

वाणो वीणाविशेषः । वाणः शततन्तुरिति महाव्रते दर्शनात् । भेरीमृदङ्गौ प्रसिद्धौ । गर्त्तो रथः । ‘आरोहतं वरुण मित्र गर्तम्’ । ‘स्तुहि श्रुतं गर्तसदम्’ इत्यादौ दर्शनात् । आर्त्तो बन्धुमरणदिना दुःखितः । तेषां शब्दे श्रूयमाणे तावन्तं कालं नाधीयीत ॥ ७ ॥