गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 255, कुल 360 में से
संदर्भ में पढ़ें१८८ गौतमधर्मसूत्राणि
स्वयं सूना निर्यासा लोहिता अलोहिताश्चाभक्ष्याः । व्रश्चनप्रभवास्तु लोहिता एव । मनुस्तु—लोहितान्वृक्षनिर्यासान्ब्रश्चनप्रभवांस्तथा । इति ।
केचित्तु लोहितशब्दं किसलयादिष्वपि पठन्ति । हिङ्गुस्तु निर्यासो व्रश्चनप्रभवो न वेति चिन्त्यम् । सर्वथा शिष्टा अपि भक्षयन्ति । कर्पूरस्तु न निर्यासो न व्रश्चनप्रभवो न लोहितस्तस्माद् भक्ष्य एव ॥३३॥
वृक्षादि के कटे हुए स्थान से निकले हुए लाल रंग के पदार्थ का भक्षण नहीं करना चाहिए ॥ ३३ ॥
निचुदारुबकबलाकाशुकमद्गुटिट्टिभमास्थालनक्तंचरा अभक्ष्याः ॥ ३४ ॥
निचुदारुर्दार्याघाटः । मद्गुर्जलवायसः । मास्थालो वाग्वदः । नक्तंचरा उलूकादयः । अन्ये प्रसिद्धाः । अभक्ष्या इति पञ्चनखा इत्यारभ्य संबध्यते ॥ ३४ ॥
कठफोड़वा, बलाका, सारस, तोता, पनकौआ, टिटिहरी, वल्गुल तथा रात्रि में उड़ने वाले (उल्लू आदि) पक्षी अभक्ष्य होते हैं ॥ ३४ ॥
भक्ष्याः प्रतुदविष्किरजालपादाः ॥ ३५ ॥
तुण्डेन प्रतुद्य प्रतुद्य ये भक्षयन्ति ते प्रतुदाः । ये पादाभ्यां विकीर्य भक्षयन्ति मयूरादयस्ते विष्किराः । जालाकारौ पादौ येषां ते जालपादाः । एते भक्ष्याः । यद्यप्यभक्ष्येयूक्तेष्वन्ये भक्ष्या इति गम्यते तथाऽपि भक्ष्या इत्युपादानमनुक्तानामापद्येव भक्षणं [ यथा ] स्यादनापदि मा भूदिति ॥ ३५ ॥
चोंच से तोड़-तोड़ कर खाने वाले, पैरों से तोड़कर खानेवाले पक्षी (मयूर आदि) तथा जालीदार पैरों वाले पक्षी भक्ष्य होते हैं ॥ ३५ ॥
मत्स्याश्चाविकृताः ॥ ३६ ॥
विकृता मनुष्यशिरस्कादयस्तद्विपरीता अविकृता भक्ष्या इति ॥ ३६ ॥
जो मछलियां विकृत स्वरूप वाली नहीं होती है, वे भक्ष्य होती हैं ॥ ३६ ॥
वध्याश्च धर्मार्थे ॥ ३७ ॥
ये भक्ष्या उक्तास्ते न केवलं स्वयं मृता अन्यहता वा भक्ष्या अपि तु वध्याश्च । धर्मार्थेऽतिथिपूजादौ । अपरश्चाऽह-ये धर्मार्थे यज्ञादौ वध्या ह...तिषा अपि भक्ष्या अनुत्विजामपीति । धर्मार्थे इति वचनादवकीर्णिपशोर्मासमभक्ष्यम् । तस्य प्रायश्चित्तार्थत्वात् ॥ ३७ ॥