गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 257, कुल 360 में से
संदर्भ में पढ़ेंअथ नवमोऽध्यायः
अथ स्त्रीधर्मानाह—
अस्वतन्त्रा धर्मे स्त्री ॥ १ ॥
श्रौते गार्ह्ये च धर्मे स्त्री भर्तुरेवानुष्ठानमनुप्रविशति । व्रतोपवासादिभिरपि स्मार्तैः पौराणैश्च धर्मैर्नान्तरेण भर्तुरनुज्ञां स्वातन्त्र्येणाधिक्रियते । आह शङ्खः—न च व्रतोपवासैर्नियमैर्व्यादानधर्मो वाऽनुग्रहकरणं स्त्रीणामन्यत्र पतिशुश्रूषायाः। कर्म तु भर्तुरनुज्ञया व्रतोपवासनियमादीनामभ्यासः स्त्रीधर्म इति । नारदोऽप्याह—
स्त्रीकृतान्यप्रमाणानि कार्याण्याहुरनापदि ।
विशेषतो गृहक्षेत्रदानाध्ययनविक्रयात् ॥
एतान्येव प्रमाणानि भर्ता यद्यनुमन्यते ॥ इति ।
मनुस्तु—
बाल्ये पितुर्वशे तिष्ठेत्पाणिग्राहस्य यौवने ।
पुत्रस्य स्थविराभावे न स्त्री स्वातन्त्र्यमर्हति ॥
बालया वा युवत्या वा वृद्धया वाऽपि योषिता ।
न स्वातन्त्र्येण कर्तव्यं कार्यं किंचिद् गृहेष्वपि । इति ॥ १॥
( श्रौत और गार्ह्य ) धर्म में स्त्री अस्वतन्त्र होती है अर्थात् पति के ही धर्मानुष्ठान का अनुसरण करती है ॥ १ ॥
नातिचरेद्भर्तारम् ॥ २ ॥
भर्तारं नातिक्रामेद्भर्तुरन्यं मनसाऽपि न चिन्तयेत् ॥ २ ॥
स्त्री अपने पति के अतिरिक्त किसी अन्य का ( मन से भी ) चिन्तन न करे ॥ २ ॥
वाक्चक्षुःकर्मसंयता ॥ ३ ॥
यावदर्थसंभाषिणी वाक्संयता । प्रेक्षकादीनामप्रेक्षिणी चक्षुःसंयता स्वकुटुम्बार्थकर्मव्यतिरिक्तानां कर्मणामकर्त्री कर्मसंयता । एवंभूता स्यात् ॥ ३ ॥
वाणी, दृष्टि और कर्म का संयम रखे अर्थात् जितने से अर्थ निकल जाय उतना ही बोले, देखने वालों की ओर न देखे और अपने कुटुम्ब के लिए ही कर्म करे ॥ ३ ॥