गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 286, कुल 360 में से
संदर्भ में पढ़ेंअथ चतुर्थोऽध्यायः
एवं प्रायश्चित्तनिमित्तान्युक्तानि। अथ प्रायश्चित्तान्युच्यन्ते—
प्रायश्चित्तम् ॥ १ ॥
अधिकारोऽयम् । निश्चित्य तपसोऽनुष्ठानं प्रायश्चित्तम् ।
तथा चाङ्गिराः—
प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते ।
तपोनिश्चयसंयोगात्प्रायश्चित्तमिति स्मृतम् ॥ इति ॥ १॥
अब प्रायश्चित्तों का वर्णन किया जाता है ॥ १ ॥
अग्नौ सक्तिर्ब्रह्मघ्नस्त्रिरवच्छातस्य ॥ २ ॥
सक्तिः सङ्गः पतनम् । अवच्छातोऽवशीर्णो भक्तत्यागेन कृशोभूतः । ब्रह्महा भक्तत्यागेन कृशो भूत्वाऽग्नौ त्रिः पतेदुत्थायोत्थाय । इदमस्य प्रायश्चित्तम् , अत्र मानवो विशेषः—
प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः । इति ।
काठकश्रुतिः— "अनशनकर्शितोऽग्निमारोहेत्" इति ।
नेदं मरणान्तिकं त्रिरिति नियमात् । त्रिः पतने जीवन्नपि शुध्यतीति ॥ २ ॥
जानबूझ कर का ब्राह्मण की हत्या करने वाला भोजन त्याग कर दुर्बल शरीर होकर तीन बार अग्नि में कूदे तो उसका प्रायश्चित होता है ॥ २ ॥
लक्ष्यं वा स्याज्जन्ये शस्त्रभृताम् ॥ ३ ॥
जन्यं युद्धम् । शस्त्रभृत इष्वासाः । लक्ष्यमिति वचनाद्युद्ध इष्वासानामिषूनस्यतां मध्ये लक्ष्यं वेध्यं भूत्वा तिष्ठेत् । तैर्विद्धो जीवन्मृतो वा शुध्यति । याज्ञवल्क्यः—
संग्रामे वा हतो लक्ष्यभूतः शुद्धिमवाप्नुयात् ।
मृतकल्पः प्रहारार्तो जीवन्नपि विशुध्यति ॥ इति ॥ ३ ॥
अथवा वह युद्ध में रत योद्धाओं का लक्ष्य बनकर प्रायश्चित करे ॥ ३ ॥
खट्वाङ्गकपालपाणिर्वा द्वादश संवत्सरान्ब्रह्मचारी भैक्षाय ग्रामं प्रविशेत्कर्माऽऽचक्षाणः ॥ ४ ॥