भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 287, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 287

२२० गौतमधर्मसूत्राणि

खट्वाङ्गं पाशुपतानां प्रसिद्धम् । कपालं स्वव्यापादितस्य ब्राह्मणस्य शिरः कपालम् । ते पाण्योर्यस्य स खट्वाङ्गकपालपाणिः । खट्वाङ्गं दक्षिणे पाणौ कपालं सव्ये भिक्षार्थं पानीयपानार्थं भोजनार्थं च । तत्राऽऽपस्तम्बः—पुरुषशिरः प्रतिपानार्थमादाय खट्वाङ्गं दण्डार्थमिति । मनुस्तु—कृत्वा शवशिरोध्वजम् । इति । तस्मिन्पक्षे खट्वाङ्गस्याग्रे ध्वजः । तन्मूले शवशिरः । भिक्षाचरणं तु लोहितेन खण्डशरावेणाऽऽपस्तम्बीयदर्शनात् । एवंभूतो भैक्षाय ग्रामं प्रविशेत् । एतावानस्य ग्रामे प्रवेशोऽन्यदा रण्ये । भैक्षं च कर्माऽऽचक्षाणश्चरेत् ।

वेश्मनो द्वारि तिष्ठामि भिक्षार्थी ब्रह्मघातकः । इति पराशरः ।

द्वादश संवत्सरानेवं चरन्ब्रह्मचारी भवेत् । स्त्रीषु न प्रसजेत् । भिक्षाचरणे सप्तागाराण्यसंकल्पितानीत्यापस्तम्बः । संवर्तस्तु—

भिक्षायै प्रविशेद् ग्रामं वन्यैर्यदि न जीवति । इति ।

एककालाहार इति वसिष्ठः ॥ ४ ॥

अथवा बारह वर्ष तक ब्रह्मचर्य धारण कर, केवल भिक्षा के लिए ग्राम में प्रवेश करके, हाथ में एक चारपाई का पाया तथा नरकपाल लेकर अपने कर्म को बताते हुए जीवन व्यतीत करने पर प्रायश्चित्त होता है ॥ ४ ॥

पथोऽपक्रामेत्सन्दर्शनादार्यस्य ॥ ५ ॥

आर्यस्त्रैवर्णिकस्तस्मिन्दृष्टे पथोऽपक्रामेदपयायात् । अत्र व्याघ्रः—

चाण्डालं पतितं दृष्ट्वा दूरतः परिवर्जयेत् ।
गोवालव्यजनादर्वाक्सचैलं स्नानमाचरेत् ॥ इति ।

शूद्रोऽपि स्पर्शं वर्जयेत् । यथाऽऽह लौगाक्षिः—

महापातकिसंस्पर्शे वर्णानां स्नानमुच्यते ।
अस्नात्वा भोजने चैव सप्तरात्रं समाविशेत् ॥
त्रिरात्रं स्यादमत्या चेच्छङ्खपुष्पीश्रुतं पयः ।
एवमर्त्तविचण्डालशवानामपि कीर्तयेत् ॥ इति ॥ ५ ॥

यदि उसके मार्ग में कोई आर्य (तीन उच्च वर्णों का व्यक्ति) आता दिखाई पड़े तो वह मार्ग से दूर हट जाय ॥ ५ ॥

स्थानासनाभ्यां विहरन्सवनेषूदकोपस्पर्शी शुध्येत् ॥ ६ ॥

तिष्ठेदहनि रात्रावासीत यथाशक्ति प्रातर्मध्यन्दिने सायमिति सवनेषु त्रिसंध्यमुदकोपस्पर्शी स्यात्स्नायात् । एवं द्वादश वर्षाणि चरन्नन्ते शुध्येत् । स्नानविधानादेव तदन्तर्भूतमन्त्रादिप्राप्तिरिति गम्यते । शुचिना कर्तव्यमिति च सर्वकर्मसाधारणम् । अतः संध्योपासनमप्यस्य भवति ।