गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 295, कुल 360 में से
संदर्भ में पढ़ें२२८ गौतमधर्मसूत्राणि
बहूनामपि व्यापादने द्विगुणमेव वचनबलात् । न तु प्रतिनिमित्तं नैमित्तिकावृत्तिः । व्यासः-
औषधं लवणं चैव पुण्यार्थमपि भोजनम् ।
अतिरिक्तं न दातव्यं काले स्वल्पं तु दापयेत् ॥
अतिरिक्ते विपत्तिश्चेत्कृच्छ्रपादो विधीयते । इति ।
आपस्तम्बः-
पाषाणैर्लगुडैर्वापि शस्त्रैर्वाऽन्येन वा बलात् ॥
निघातयन्ति ये गास्तु तस्मिन्कुर्युर्व्रतं हि ते ।
पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् ॥
योजने पादहीनं स्याच्चरेत्सर्वं निपातने । इति ।
वसिष्ठः-
न नालिकेरेण न शाणवालै-
र्न चापि मौञ्जेन न वर्ध्रशृङ्खलैः ।
एतैस्तु गावो न निबन्धनीया
बद्ध्वाऽनुतिष्ठेत्परशुं प्रगृह्य ॥ इति ॥ १८ ॥
गाय की हत्या करने पर वैश्य की हत्या के लिए विहित प्रायश्चित्त ही होता है ॥ १८ ॥
मण्डूकनकुलकाकबिम्बदहरमूषकश्वहिंसासु च ॥ १९ ॥
बिम्बः कामरूपी कृकलासः । दहरः स्वल्पकायो मूषकः । छुच्छुन्दरी- त्येके । अन्ये प्रसिद्धाः । एतेषां समुदितानां वधे वैश्यवत्प्रायश्चित्तम् । इदं बुद्धिपूर्वाभ्यासविषयम् । अन्यत्राऽऽपस्तम्बीयम्-वायसबकबलाक- बर्हिणचक्रवाकहंसभासमण्डूकनकुलसैरिकाश्वहिंसायां शूद्रवत्प्रायश्चित्तम् । इति ।
मनुरपि-
मार्जारनकुलौ हत्वा चाषमण्डूकमेव च ।
श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत् ॥ इति ।
प्रत्येकं वधे तु बुद्धिपूर्वे-
मार्जारगोधामकुलमण्डूकश्वपतत्त्रिणः ।
हत्वा त्र्यहं पिबेत्क्षीरं कृच्छ्रं वा पादिकं चरेत् ॥
इति याज्ञवल्क्योक्तं द्रष्टव्यम् । बुद्धिपूर्वे मानवम्-
पयः पिबेत्त्रिरात्रं वा योजनं वाऽध्वनो व्रजेत् । इति ॥१९॥
मेढ़क, नेवला, कौआ, कृकलास, चूहा, छुछुन्दर इन सबका वध करने पर वैश्यवध के समान प्रायश्चित्त होता है ॥ १९ ॥