गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 296, कुल 360 में से
संदर्भ में पढ़ेंसानुवाद-मिताक्षरावृत्तिसहितानि २२९
अस्थन्वतां सहस्रं हत्वा ॥ २० ॥
अस्थिमतां कृकलासादीनां सहस्रं हत्वा वैश्यवत्प्रायश्चित्तम् ॥ २० ॥
अथवा बिना अस्थि वाले एक सहस्र जीवों का वध करने पर (वही प्रायश्चित्त होता है) ॥ २० ॥
अनस्थिमतामनडुद्धारे च ॥ २१ ॥
येऽस्थिमन्तो न भवन्ति दंशमशकादयस्तेषां यावतोऽनड्वान्भर्तुं शक्नोति तावतो हत्वा वैश्यवत्प्रायश्चित्तम्। इदं द्वयमपि पूर्वाभ्यास-विषयम्। अन्यत्र याज्ञवल्क्योक्तम्—
अस्थन्वतां सहस्रं तु तथाऽनस्थिमतामनः।
शूद्रहत्याव्रतं षाण्मासिकं प्रकृतं दश धेनूर्वा दद्यात्। इति च ॥ २१ ॥
अथवा एक बैल के बोझ होने के बराबर बिना अस्थि वाले जीवों की हत्या करने पर (वही प्रायश्चित्त होता है) ॥ २१ ॥
अपि वाऽस्थन्वतामेकैकस्मिन्किंचिद्दद्यात् ॥ २२ ॥
अपि वेति विकल्पे। अस्थन्वतां यावन्तो हताः सहस्रमूर्ध्वमर्वाग्वा तावतः संख्याय प्रत्येकं किंचित्किंचिद्दद्यात्। इदं चास्थिमत्सु प्रायश्चित्तं पूर्वकं वेति।
अष्टमुष्टि भवेत्किंचित्किंचिदष्टौ तु पुष्कलम्।
पुष्कलानि तु चत्वारि आढकः परिकीर्तितः ॥
चतुराढको भवेद् द्रोण इति मानस्य लक्षणम्। इति स्मृतिः।
अनस्थिमतां तु तावन्तः प्राणायामाः। तथा च मनुः—
किंचिदेव तु विप्राय दद्यादस्थिमतां वधे।
अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥ इति ॥ २२ ॥
अथवा अस्थि वाले प्रत्येक क्षुद्र प्राणी की हत्या के प्रायश्चित्त के रूप में कुछ वस्तु का दान करे ॥ २२ ॥
षण्ढे पलालभारः सीसमाषश्च ॥ २३ ॥
यं प्रति देवलं आह—
षण्ढो यो हीनलिङ्ग स्यात्संस्कारार्हश्च नैव सः। इति।
तस्मिन्हते पुरुषवाह्यः पलालभारः सीसमाषश्चेत्युभयं मिलितं देयं बुद्धिपूर्वे। इतरत्र त्वेकैकम्। सीसं लोहविशेषो रजतसदृशः क्षणद्रुतिः। माषप्रमाणं पूर्वमेव व्याख्यातम्। अत्र च न क्वापि स्मृतौ जातिविशेषः श्रूयते, षण्ढः षण्ढक इत्येतावदेव श्रूयते। तत्र यथा जातिसमवायेऽपि