गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 298, कुल 360 में से
संदर्भ में पढ़ेंसानुवाद-मिताक्षरावृत्तिसहितानि २३१
सुवर्णादि । एतेषां लाभस्य वधे विघ्न एषु लभ्यमानेषु दोषोपन्यासादिना यो हन्ति स पृथक्प्रतिनिमित्तं भेदेन संवत्सरं प्राकृतं ब्रह्मचर्यं चरेत् । कन्यान्नधनविघ्ने प्राजापत्यमित्यौशनसमबुद्धिपूर्वविषयम् । ब्राह्मणलाभ-विषयमिदम् । क्षत्रियादिष्वर्धमर्धम् ॥ २८ ॥
किसी ब्राह्मण के पत्नी, अन्न या धन की प्राप्ति में विघ्न बनने पर एक वर्ष का सामान्य ब्रह्मचर्य प्रायश्चित्त होता है ॥ २८ ॥
द्वे परदारे ॥ २९ ॥
परदारगमने द्वे वर्षे प्राकृतं ब्रह्मचर्यम्। ऋतुकालगमने बुद्धिपूर्व इदम्। अकामिनः पुनरेतदेवार्धक्लृप्त्या योज्यम् ॥ २९ ॥
पर-स्त्री-गमन के लिए दो वर्ष ब्रह्मचर्य प्रायश्चित्त होता है ॥ २९ ॥
त्रीणि श्रोत्रियस्य ॥ ३० ॥
पूर्वोक्त एव विषये श्रोत्रियस्य ब्राह्मणस्य दारान्गच्छतस्त्रीणि वर्षाणि ब्रह्मचर्यम् । अत्राप्यकामतोऽर्धम् । अत्र शङ्खः—वैश्यायामवकीर्णः संवत्सरं ब्रह्मचर्यं त्रिषवणं चानुतिष्ठेत् । क्षत्रियायां द्वे वर्षे । त्रीणि ब्राह्मण्याम् । वैश्यावच्च शूद्रायां ब्राह्मणपरिणीतायाम् ॥ इति ।
संवर्तः—शूद्रां तु ब्राह्मणो गत्वा मासं मासार्धमेव वा ।
गोमूत्रयावकाहारस्तिष्ठेत्तत्पापमोक्षकः ॥ इति ।
कामतो मासमकामतोऽर्धमासमिति व्यवस्थितो विकल्पः । अनृतुकाले तु ब्राह्मण्यादिद्विजातिषु मानवानि त्रैमासिकद्वैमासिकचान्द्रायणानि क्षत्रियादीनां च क्षत्रियादिस्त्रीषु ब्राह्मणवत्प्रायश्चित्तम् । अत्रोशना—
गमने तु व्रतं यत्स्याद् गर्भे तद्विगुणं चरेत् ॥ इति ॥ ३० ॥
किसी श्रोत्रिय ( वेदज्ञ ब्राह्मण ) की पत्नी के संभोग का प्रायश्चित्त तीन वर्ष का ब्रह्मचर्य होता है ॥ ३० ॥
द्रव्यलाभे चोत्सर्गः ॥ ३१ ॥
यदि च परस्त्रीतो यत्किंचिद् द्रव्यं लब्धं तस्योत्सर्गस्त्यागः कार्यः ॥ ३१ ॥
पर-स्त्री से कोई द्रव्य पाने पर उसका त्याग कर दे ॥ ३१ ॥
यथास्थानं वा गमयेत् ॥ ३२ ॥
यत्र स्थाने लब्धं तदा गमयेत् ॥ ३२ ॥
अथवा यथास्थान ( जहाँ से प्राप्त हुआ हो वहाँ ) उसे लौटा दे ॥ ३२ ॥