गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 301, कुल 360 में से
संदर्भ में पढ़ें२३४ गौतमधर्मसूत्राणि
इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । या तु दौःशील्यात्प्रायश्चित्तं न करोति तदा— प्रातिलोम्ये वधः पुंसां स्त्रीणां नासादिकर्तनम् । इत्येतद्भवति । हीनवर्णोपभुक्ता या साम्या( साऽङ्कथा ) वध्याऽथवा भवेत् । इति पराशरः । अंकनं पुंल्लिङ्गेन ॥ ३५ ॥
इसी प्रकार पति को छोड़कर अन्य पुरुष के साथ व्यभिचार करने वाली स्त्री भी एक वर्ष तक ब्रह्मचर्य धारण कर प्रायश्चित्त करे ॥ ३५ ॥
अमानुषीषु गोवर्जं स्त्रीकृते कूष्माण्डैर्घृतहोमो घृतहोमः ॥ ३६ ॥
गोवर्जितास्वमानुषीषु महिषादिस्त्रीषु स्त्रीकृते मैथुन आचरिते कूष्माण्डैर्घृतहोमः कर्तव्यः । गोवर्जमिति वचनं विस्पष्टार्थम् । वक्ष्यति गवि च गुरुतल्पसम इति । ततश्च तदेव गोगमने भविष्यति । सकृद्गमन इदम् । अभ्यासे शङ्खोक्तम्—पशुवेश्याभिगमने प्राजापत्यम् । इति । अत्र कण्ठः( ण्वः )—
प्रसूतो यस्तु वेश्यायां भैक्षभुक्संयतेन्द्रियः । शतसाहस्रमभ्यस्य सावित्रीमेति शुद्धताम् ॥ इति ।
द्विरुक्तिरुक्ता ॥ ३६ ॥
गाय के अतिरिक्त अन्य ( भैंस आदि ) मादा पशु के साथ मैथुन करने पर कूष्माण्ड मन्त्रों के साथ घृत-होम करने पर शुद्धि होती है ॥ ३६ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां तृतीयप्रश्ने चतुर्थोऽध्यायः ॥ ४ ॥