गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 302, कुल 360 में से
संदर्भ में पढ़ेंअथ तृतीयप्रश्ने पञ्चमोऽध्यायः
क्रमप्राप्तं सुरापानप्रायश्चित्तमाह—
सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः सुरामास्ये मृतः शुध्येत् ॥ १ ॥
त्रिविधा सुरा । यथाऽऽह मनुः—
गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा ।
यथैवैका न पातव्या तथा सर्वा द्विजोत्तमैः ॥ इति ।
द्विजोत्तमा ब्राह्मणाः । क्षत्रियवैश्ययोस्तु पैष्ट्येव । यथा स एवाऽऽह—
सुरा वै मलमन्नानां पाप्मा च मलमुच्यते ।
तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥ इति ।
अन्नानां मलं सुरा पैष्टी । अत्र ब्राह्मणग्रहणं द्विजात्युपलक्षणम् । यस्य या प्रतिषिद्धा सुरा तस्याः पाता सुरापः । तस्य द्विजातेरास्ये तामेव सुरामुष्णामासिञ्चेयुः । उपदेष्टृष्वयमासेचनारोपः। आसिञ्चन्त्येव हि ते सुरामास्ये । येन सुरापेण सुरोष्णा पातव्या तस्येयं निष्कृतिरित्युपदिशन्तीति । स्वयमेव त्वासेचनकर्ता । तथा चाऽऽपस्तम्बः—सुरापोऽग्निसस्पर्शां सुरां पिबेदिति । आसिञ्चेयुरिति बहुवचनमुपदेष्टॄणां बहुत्वं सूचयति । मनुरप्याह—
तेषां वेदविदो ब्रूयुस्त्रयोऽप्येनःसु निष्कृतिम् ।
सा तेषां पावना यस्मात्पवित्रं विदुषां हि वाक् ॥ इति ।
मृतः शुध्येदितिवचनात्तथा सुरा तापयितव्या यथा पातुर्मरणं भवति । आर्द्रवासाः पिबेदिति पैठीनसिः । आयसेन ताम्रेण वा पात्रेणेति प्रचेताः ।
अत्र याज्ञवल्क्यः—
सुराम्बुघृतगोमूत्रपयसामग्निसंनिभम् ।
सुरापोऽन्यतमं पीत्वा मरणाच्छुद्धिमृच्छति ॥
बालवासा जटी वाऽपि ब्रह्महत्याव्रतं चरेत् ।
पिण्याकं वा कणान्वाऽपि भक्षयेत्तु समां निशि ॥ इति ।
तत्र मरणान्तिकप्रायश्चित्तं बुद्धिपूर्वाभ्यासविषयम् । अत्रैव सकृत्पानविषयं ब्रह्महत्याव्रतं द्वादशवार्षिकम् । अत्र स्त्रियोऽधिकृत्य शङ्खः—सुरालशुनपलाण्डुगृञ्जनमांसादीन्यभक्ष्याणि वर्जयेदाहारमयं शरीरमिति-