भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 334, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 334

सानुवाद-मिताक्षरावृत्तिसहितानि २६७

एतेनैवातिकृच्छ्रो व्याख्यातः ॥ १८ ॥

स्पष्टम् ॥ १८ ॥
इस प्रकार अतिकृच्छ्र व्रत बताया गया है ॥ १८ ॥

यस्त्वस्य विशेषस्तमाह--

यावत्सकृदादादीत तावदश्नीयात् ॥ १९ ॥

एकेन पाणिना यावत्सकृदादातुं शक्नुयात्तावदेवाश्नीयात् । हविष्यं दिवा नक्तमयाचितमुपवास इति विशेषाः स्थिता एव । अत्र मनुः--
एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् ।
त्र्यहं चोपवसेदन्त्यमिति कृच्छ्रः स उच्यते ॥ १९ ॥
लेकिन यह व्रत करते समय उतना ही भोजन करना चाहिए जितना एक बार खा सके ॥ १९ ॥

अब्भक्षस्तृतीयः स कृच्छ्रातिकृच्छ्रः ॥ २० ॥

पूर्वोक्तेष्वेव भोजनकालेषु केवलमुदकमेव पिबेत्स एष तृतीयः कृच्छ्रातिकृच्छ्रो नाम वेदितव्यः । अत्रोपवासदिनेष्वाचमनव्यतिरेकेणोदकपानमपि न भवति । त एते त्रयः कृच्छ्रा उक्ताः ॥ २० ॥
तीसरा कृच्छ्र वह होता है जिसमें केवल जल का सेवन किया जाता है और उसे कृच्छ्रातिकृच्छ्र व्रत कहते हैं ॥ २० ॥

तेषु--

प्रथमं चरित्वा शुचिः पूतः कर्मण्यो भवति ॥ २१ ॥

प्रथमं प्राजापत्यं चरित्वा शुचिः 'संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु' इत्यादिना विहिताकरणनिमित्तेन दोषेण हीनः । पूतः प्रतिषिद्धाचरणजन्येनाधर्मेण रहितः । कर्मण्यः कर्मसु योग्यश्च भवति । कर्मण्य इति वचनादप्रज्ञातदोषस्यापि कृच्छ्रानुष्ठानादेवानादिष्टेषु कर्मसु योग्यतेति ज्ञाप्यते ॥ २१ ॥
इनमें से प्रथम कृच्छ्र करने वाला पवित्र और अपने वर्ण का कर्म करने के लिये योग्य बन जाता है ॥ २१ ॥

द्वितीयं चरित्वा यत्किंचिदन्यन्महापातकेभ्यः पापं कुरुते तस्मात्प्रमुच्यते ॥ २२ ॥

द्वितीयमतिकृच्छ्रं चरित्वा महापातकव्यतिरिक्तैः पापैर्मुच्यते ॥ २२ ॥