गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 347, कुल 360 में से
संदर्भ में पढ़ें२८० | गौतमधर्मसूत्राणि
पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन्स्त्री वाऽनपत्यस्य ॥ १९ ॥
यस्य पुत्रिकारूपमप्यपत्यं नास्ति सोऽनपत्यः । तस्य रिक्थं पिण्डादिसंबन्धा भजेरन्स्त्री वा । पिण्डसंबन्धाः सपिण्डाः । गोत्रसंबन्धाः । सगोत्राः हारीतस्य हारीत इतिवत् । ऋषिसंबन्धाः समानप्रवरा हरितकुत्सपिङ्गशङ्खदर्भहैमगवाः परस्परम् । एवमन्यत्रापि । तत्र सपिण्डाद्याः प्रत्यासत्तिक्रमेण गृह्णीयुः । तथा चाऽऽपस्तम्बः—पुत्राभावे यः प्रत्यासन्नः सपिण्ड इति । तद्यथा—पिता माता च सोदर्यतत्पुत्रा भिन्नोदरा भ्रातरस्तत्पुत्राः पितृव्य इत्यादि । सपिण्डाभावे सगोत्रास्तदभावे समानप्रवराः । स्त्री तु सर्वैः सगोत्रादिभिः समुच्चीयते । यदा सपिण्डादयो गृह्णन्ति तदा तैः सह पत्न्यप्येकमंशं हरेत् । तथा—
पितुरूर्ध्वं विभजतां माताऽप्यंशं समं हरेत् । इति ।
अत एव स्त्री पृथङ्निर्दिष्टा । सपिण्डादयः समानेन । पत्नीदायस्त्वाचार्यस्य पक्षे न भवति । मनुरपि—
निरिन्द्रिया अदायादाः स्त्रियो नित्यमिति स्थितिः । इति ।
अत्र सपिण्डाद्यभावे बृहस्पतिः—
अन्यत्र ब्राह्मणात्किं तु राजा धर्मपरायणः ।
तत्स्त्रीणां जीवनं दद्यादेष दायविधिः स्मृतः ॥
अन्नार्थं तण्डुलप्रस्थमपराह्णे तु सेन्धनम् ।
वसनं त्रिपणक्रीतं देयमेकं त्रिमासतः ॥
एतावदेव साध्वीनां चोदितं विधिनाऽशनम् । इति ।
तदेवं मनुबृहस्पतिभ्यां पत्नीदायस्यात्यन्ताभाव उक्तः । याज्ञवल्क्येन तु पत्नीदायः स उक्तः—पत्नी दुहितरश्चैत्यादि । अत्र व्यासः—
द्विसहस्रपणो दायः पत्न्यै देयो धनस्य तु ।
यच्च भर्त्रा धनं दत्तं सा यथाकाममाप्नुयात् ॥ इति ।
आचार्येण तु सपिण्डादिसमांशग्रहणमुक्तम् । तत्र सर्वमेव धनं सपिण्डाद्या गृहीत्वा स्त्रियो यावज्जीवं रक्षेयुरिति मुख्यः कल्पः । तदसंभवेऽशनवसनयोः पर्याप्तं धनक्षेत्रादिकमंशत्वेन व्यपोह्य शेषं गृह्णीयुः । तथा च बृहस्पतिना पत्नीदायं प्रतिषिध्यन्त उक्तम्—
वसनस्याशनस्यैव तथैव रजतस्य च ।
त्रयं व्यपोह्य तच्छिष्टं दायादानां प्रकल्पयेत् ॥
धूमावसारिकं द्रव्यं सहायास्तानतः पुरा ।
तथैवाशनवासांसि विगणय्य धने मृता ॥ इति ॥ १९ ॥