भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 348, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 348

सानुवाद-मिताक्षरावृत्तिसहितानि २८१

बिना पुत्र या पुत्रिका वाले व्यक्ति के मरने पर उसके सपिण्ड, सगोत्र, समान ऋषि वाले तथा उसकी स्त्री सम्पत्ति का भागी हो ॥ १९ ॥

बीजं वा लिप्सोत ॥ २० ॥

अथवा स्त्री सपिण्डादिभ्यो बीजं लिप्सोत । अपत्यमुत्पादयेदित्युकतं भवति । अस्मिन्पक्षे तु न सपिण्डाद्या धनं गृह्णीयुश्शेषतोऽपत्यस्यार्थाय रक्षेयुः ॥ २० ॥

अथवा सपिण्ड आदि से नियोग द्वारा पुत्रोत्पत्ति की इच्छा करे ॥ २० ॥

अस्मिन्पक्षे विशेषः—

देवरवत्यामन्यजातमभागम् ॥ २१ ॥

देवरे विद्यमाने यद्यन्यतो बीजं लिप्सोत ततस्तस्यां जातमपत्यमभागं भागरहितम् । न तस्य धनग्रहणमस्ति । असति तु देवरेऽन्यतो जातमप्यपत्यं सभागमेव ॥ २१ ॥

देवर के रहते हुए किसी अन्य पुरुष के नियोग से उत्पन्न पुत्र को उस स्त्री के पति की सम्पत्ति का भाग नहीं मिलता ॥ २१ ॥

स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठितानां च ॥ २२ ॥

पितृमातृसुतभ्रातृदत्तमध्यग्न्युपागतम् ।
आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितम् ॥ इति याज्ञवल्क्यः ।
तत्स्रीधनं तस्यां मृतायां दुहितॄणामप्रत्तानां भवति । यदि सर्वा अपि प्रत्ता अप्रतिष्ठितानां भवति । प्रत्तासु प्रतिष्ठिताः काश्चित्काश्चिदप्रतिष्ठिताः । प्रत्ताप्रत्तासमवायेऽप्रत्ता गृह्णाति । प्रतिष्ठिताप्रतिष्ठितासमवायेऽप्रतिष्ठिता गृह्णाति । यदा प्रसूतादिधनं तदा सर्वासाम् भवति । एषा मातुरूध्वं जीवन्त्यां पितृकुललब्धस्य स्त्रीधनस्य गतिः । तथा च मनुः—मातुस्तु यौतकं यत्स्यात्कुमारीभाग एव सः ।

वसिष्ठश्च—मातुः पारिणेयं स्त्रियो विभजेरन्निति । यत्तु शङ्खलिखिताभ्यामुक्तम्—समं सर्वे सोदर्या मातृकं द्रव्यमर्हाः स्त्रीकुमार्यश्चेति । तद्भर्तृकुललब्धेः प्रत्तासु दुहितृषु । तत्र प्रत्ताविषये प्रभूततमे मानवम्—

जनन्यां संस्थितायां तु समं सर्वे सहोदराः ।
भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः ॥
यास्तवासां स्युर्दुहितरस्तासामपि यथार्हतः ।
मातामह्या धनात्किञ्चित्प्रदेयं प्रीतिपूर्वकम् ॥ इति ।

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित) · पृष्ठ 348, कुल 360 में से · BharatKosha