गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 349, कुल 360 में से
संदर्भ में पढ़ें२८२ गौतमधर्मसूत्राणि
तत्रैवाल्पे धने बार्हस्पत्यम्—
स्त्रीधनं तदपत्यानां दुहितॄणां तदाशिनी ।
अप्रत्ता चेत्समूढा सा लभेत तु समातृकम् ॥ इति ॥ २२ ॥
स्त्री की सम्पत्ति उसकी अविवाहिता पुत्रियों को मिलती है, अविवाहिता पुत्रियों के अभाव में निर्धन विवाहिता पुत्रियों को मिलती है ॥ २२ ॥
भगिनीशुल्कः सोदर्याणामूर्ध्वं मातुः ॥ २३ ॥
भगिनीप्रदाननिमित्तं पित्रा यद् गृहीतं द्रव्यमासुरार्षविवाहयोस्तस्मि-
न्मृते तस्या भगिन्या एव सोदर्या भ्रातरस्तेषां भवति । तच्च मातुरूर्ध्वं
जीवन्त्यां मातरि तस्या एव न तु मृतस्य पितुरेतत्स्वमिति । तत्र ये
भागिनो भिन्नोदरा भ्रातरो मातृसपत्नी चेति ते सर्वेऽशं न गृह्णीयुरीति ।
यत्र विवाहसमये भर्त्रादिकुलेन भगिन्यै दत्तम्राभरणक्षेत्रादिकं तत्तस्या
एव । मृतायां च तस्यामप्रजसि याज्ञवल्क्येनोक्तम्—
बन्धुदत्तं तथा शुल्कमन्वाधेयकमवे च ।
अप्रजायामृतीतायां बान्धवास्तदवाप्नुयुः ॥
येन यद्दत्तं स तदवाप्नुयादिति । सत्यां तु प्रजायां सैव गृह्णीया-
दिति ॥ २३ ॥
बहन का धन (भगिनी के दान के लिये पिता द्वारा गृहीत धन) उसकी माँ की मृत्यु के बाद उसके सहोदर भाई का होता है ॥ २३ ॥
पूर्वं चैके ॥ २४ ॥
प्रागपि मातुर्मरणाद्भगिनीशुल्कं सोदर्याणां भवतीत्येके मन्यन्ते ।
तस्या वृत्त्यपेक्षो विकल्पः ॥ २४ ॥
कुछ आचार्यों का मत है कि माता के जीवित रहने पर भी वह धन सहोदर भाइयों का हो जाता है ॥ २४ ॥
असंसृष्टिविभागः प्रेतानां ज्येष्ठस्य ॥ २५ ॥
असंसृष्टिनो विभक्तभ्रातरः । विभक्तव्यो विभागः । असंसृष्टिनां विभा-
गोऽसंसृष्टिविभागः । प्रेतानामित्येतदुपसर्जनभूतानामप्यसंसृष्टिनां विशे-
षणम् । अनपत्यस्य चेति वर्तते असंसृष्टिनां विभक्तानामनपत्यानां भ्रातॄणां
प्रत्तानां यो विभागो विभक्तव्यो धनादिः स ज्येष्ठस्य भ्रातुर्भवति नेतरेषां
भ्रातॄणां नापि पत्न्या न च पित्रोरित्याचार्यस्य पक्षः । तथा च शङ्खलिखि-
तपैठीनसयः-अपुत्रस्य स्वर्ग्यातस्य भ्रातृगामि द्रव्यं तदभावे मातापितरौ
हरेतां पत्नी वा ज्येष्ठा सगोत्रशिष्यस्य ब्रह्मचारिणश्चेति । मनुस्तु—