भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 350, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 350

सानुवाद-मिताक्षरावृत्तिसहितानि २८३

पिता हरेदपुत्रस्य रिक्थं भ्रातर एव च । इति ।
देवलश्च—ततो दायमपुत्रस्य विभजेरन्सहोदराः ।
सकुल्या दुहिता वाऽपि ध्रियमाणः पिताऽपि च ॥ इति ॥२५॥
पुनः एक में मिले बिना ही और पुत्रहीन मरे हुए भाई की सम्पत्ति ज्येष्ठ भाई को मिलती है ॥ २५ ॥

संसृष्टिनि प्रेते संसृष्टी रिक्थभाक् ॥ २६ ॥

भ्रात्रादिभिः संसृष्टं धनं यस्य स संसृष्टो साधारणधनोऽविभक्तो विभज्य संसृष्टश्च ।
विभक्तो यः पुनः पित्रा भ्रात्रा वैकत्र संवसेत् ।
पितृव्येणाथवा प्रीत्या स तत्संसृष्ट उच्यते ॥
इति बार्हस्पत्ये दर्शनात् । अनपत्यस्येति वर्तते । संसृष्टी(ष्टिनो)त्यनपत्ये प्रेते तस्य रिक्थं संसृष्टी भजेत् । तत्रापि सोदर्येणासोदर्येण च संसृष्टे सोदर्ये(र्यो ) भजेत् । सोदरस्य तु सोदर इति याज्ञवल्क्यदर्शनात् । तदेवं विभक्ते भ्रातर्यनपत्ये मृते तद्धनं ज्येष्ठस्य । असति ज्येष्ठे इतरेषां भ्रातॄणाम् अविभक्ते तु मृते तदंशः सर्वेषां भ्रातॄणामिति ॥ २६ ॥

यदि एक में मिले हुए भाइयों में कोई ( बिना पुत्र के ही ) मर जाये तो उसका धन उसके साथ के दूसरे भाई को प्राप्त होता है ॥ २६ ॥

विभक्तजः पित्र्यमेव ॥ २७ ॥

यस्तु विभागादूर्ध्वं जातः पुत्रस्तस्यामन्यस्यां वा भार्यायां स पित्र्यमेव गृह्णीयात् । विभागादूर्ध्वं पित्रा यदर्जितं विभागकाले वा गृहीतं तदेव भजेदल्पं प्रभूतं वा । अत्र बृहस्पतिः—
पुत्रैः सह विभक्तेन पित्रा यत्स्वयमर्जितम् ।
विभक्तजस्य तत्सर्वमनीशाः पूर्वजाः स्मृताः ॥ इति ।
यदा तु पितुर्न किंचिदस्ति तदा वैष्णवम्—पितृविभक्ता विभागोत्तरोत्पन्नस्य भागं दद्युरिति ।
याज्ञवल्क्योऽप्याह—
विभक्तेषु सुतो जातः सवर्णायां विभागभाक् ।
दृश्याद्वा तद्विभागः स्यादायव्ययविशोधितात् ॥ इति ।
अत्र मनुनारदौ—
ऊर्ध्वं विभागाज्जातस्तु पित्र्यमेव हरेद्धनम् ।