गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 351, कुल 360 में से
संदर्भ में पढ़ें२८४ गौतमधर्मसूत्राणि
संसृष्टास्तेन वा येऽस्य विभजेत स तैः सह ॥ इति ॥ २७ ॥
विभाजन के बाद उत्पन्न पुत्र पूर्णतः पिता की सम्पत्ति का उत्तराधिकारी होता है ॥ २७ ॥
स्वयमर्जितमवैद्येभ्यो वैद्यः कामं न दद्यात् ॥ २८ ॥
विद्यामधीत इति वैद्यः । स्वयमर्जितं विद्यारहितेभ्यो भ्रातृभ्यः कामं न दद्यात् । अदानेऽपि न प्रत्यवायो दाने त्वभ्युदय इति ॥ २८ ॥
विद्याध्ययन करने वाला स्वयम् उपार्जित धन ( अपने साथ मिलकर रहने वाले ) विद्याध्ययन से विरत भाइयों को अपनी इच्छा से नहीं दे सकता है ॥२८॥
अवैद्याः समं विभजेरन् ॥ २९ ॥
यदा तु सर्वे भ्रातरो मूर्खाः कृष्यादिनोपार्जयेयुस्तदा समं विभजेरन् । वैद्येनापि कृष्यादिना यदर्जितं न विद्यया लब्धं यदि पितृद्रव्याविरोधि तत्र साम्यमेव । तत्र सूत्रद्वयमपि चैतद् भ्रातृविषयमेव । पितरि तु जीवति विदुषाऽविदुषा वाऽविभक्तेनार्जितं पितुरेव ।
भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः ।
यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥ इति मनुः ॥२९॥
विद्याध्ययन से विरत भाई अपने प्राप्त धन का समान विभाजन करे ॥२९॥
आचार्येण पुत्रा रिक्थं भजेरन्नित्युक्तं तत्रौरसा एव पुत्रा इति संप्रत्ययो मा भूदित्याह—
पुत्रा औरसक्षेत्रजदत्तकृत्रिमगूढोत्पन्नापविद्धारिक्थभाजः । ३०॥
औरसो धर्मपत्नीजः । अत्र याज्ञवल्क्यः—
अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।
उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥ इति ॥
अयमेवोत्पादयितुर्न बीजिनश्च भर्तुः । दत्तविषये वसिष्ठः—
न ज्येष्ठं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा स हि संतानाय पूर्वेषाम् । न स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाद्वाऽन्यत्रानुज्ञानाद्भर्तुः । पुत्रं प्रतिग्रहीष्यन्बन्धूनाहूय राजनि चाऽऽवेद्य निवेशनस्य मध्ये व्याहृतिभिर्हुत्वाऽदूरे बान्धवसंनिकृष्टमेव प्रतिगृह्णीयादिति । स दत्तः । कृत्रिमविषये मनुः—
सदृशं तु प्रकुर्याद्यं गुणदोषविवर्जितम् ।
पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयस्तु कृत्रिमः ॥
उत्पद्यते गृहे यस्य न च ज्ञायेत कस्यचित् ।